________________
गच्छा चार
प्रादुर्भवेत् , सोऽपि जिनोक्तमोक्षमार्गक्रियां कुर्यादित्यर्थः, षष्ठाडोक्तशैलकाचार्यवदिति, त्रीण्यपि विषमाक्षरेति गाथाछन्दांसि ॥३॥ ४॥५॥ अथ वीर्योच्छलने किं फलमित्याहवीरिएणं तु जीवस्स, समुच्छलिएण गोअमा । जम्मंतरकए पावे, पाणी मुहुत्तेण निदहे ॥६॥
व्याख्या-जीवस्य-जन्तो (तो) वीर्येण तु समुच्छलितेन हे गौतम ! जन्मान्तरकृतानि पापानि प्राणी-स एव जन्तुर्मुहतमात्रेण निईहेत्-ज्यालयेत् , अहन्नकवदिति, विषमाक्षरेति गाथाछन्दः॥६॥ यस्मादेवं तस्मारिक कर्तव्यमित्याहतम्हा निउणं निहालेउं, गच्छं सम्मग्गपट्टि। वसिज्ज लत्थ आजम्म, गोअमा! संजए मुणी ॥७॥
व्याख्या-यस्मात् सद्गणे एते गुणास्तस्मान्निपुर्ण निभाल्य-सम्यक् परीक्ष्य, गच्छं सन्मार्गपस्थितं, तत्र वसेत्निवासं कुर्यात् । आजन्म-जीवितकालमभिव्याप्य यावज्जीवमित्यर्थः, हे गौतम ! संयतः सत्क्रियावान् मुनिः-साधुरिति, विपमाक्षरेति गाथाछन्दः ॥७॥ सम्यक् परीक्ष्य सद्गणे वसेदित्यनन्तरमुक्तं, तत्र गणस्य बहुव्रतिव्रतिनीसमुदायात्मकस्य प्रत्येकं परीक्षाकर्तुं न शक्यते । अथाचार्ये च परीक्षिते पायो गणोऽपि परीक्षित एव, मेव्यादिसमानत्वेन तत्पवर्तकत्वादाचार्यस्य, गणस्य च तदनुवर्तित्वादित्यतः प्रथममाचार्यमेव परीक्षेतेत्याहमेढी आलंबणं खंभ, दिट्ठी जाणं सुउत्तमं । सूरी जं होइ गच्छस्स, तम्हा तं तु परिक्खए ॥६॥
व्याख्या-यद्यस्मात्कारणात्सूरिः-सदाचार्योगच्छस्य-गणस्य 'मेदित्ति मेथिः-खले गोबन्धस्थूणा तत्समानो भवति।