________________
जामद्धजामदिणपक्खं, मासं संवच्छरंपि वा । सम्मग्गपट्टिए गच्छे, संवसमाणस्स गोअमा ॥३॥ लीलाअलसमाणस्स, निरुच्छाहस्स वीमणं । पिक्खविनइ अन्नेसिं, महाणुभागाण साहुणं ॥४॥ उज्जमं सव्वथामेसु, घोरवीरतवाइअं। लज्जं संकं अइक्वम्म, तस्स वीरिअं समुच्छले ॥५॥
गाथात्रयव्याख्या-यामाई-चतुर्घटिकं, याम-प्रहरं, दिन-अहोरात्रं, अत्र पदत्रयेऽपि विभक्तिलोपःप्राकृतत्वात् , समाहारद्वन्द्वो वा चतुर्णी पदानां, पक्ष-पश्चदश दिनात्मक, मासं-पक्षद्वयात्मक, संवत्सरं-द्वादशमासात्मक, अपिशब्दाद्वर्षद्वयादिक यावत् वा शब्दो विकल्पार्थः, सन्मार्गपस्थिते-आगमोक्तमार्गप्रवृत्ते गणे संवसतो-निवासं कुर्वाणस्य जन्तोरिति शेषः, हे गौतम ! कथम्भूतस्य लीलया अलसायमानस्य अनलसोऽलसो भवतीति अलसायते अलसायते इति अलसायमानस्तस्य, अत्र डाच् 'लोहितादिभ्यः' पिदिति सूत्रेण लोहितादेराकृतिगणत्वात् डार्थे क्यङ् प्रत्ययः । निरुत्साहस्य-निरुद्यमस्य वीमणं' ति षष्ठ्यर्थे द्वितीया । विमनस्कस्य-शुन्यचित्तस्य 'पिक्सविक्खइ' ति पश्यतः अन्येषां महानुभागानां-महाप्रभावाणां साधूनां, उद्यम-अनालस्यं सर्वस्थामेसु-सर्वक्रियासु, कथंभूतमुद्यम? 'घोरवीरतवाइअं' ति घोरं-दारुणमल्पसत्वैर्दुरनुचरत्वात् , 'वीर'त्ति वीरे भवं वैरं वीरैः साध्यमानत्वादेवंविधं तप आदिर्यत्रतं आदिशब्दाद्वैयावृयादिकं लज्जां-बीडां शङ्का-जिनोक्ते संशयरूपामतिक्रम्य-परित्यज्य स्थितस्येति शेषः, तस्य सुखशीलत्वादिदोषयुक्तस्यापि वीर्य-प्रधानधर्मानुष्ठानकरणोत्साहरूपं समुच्छलेत
१ आप्तोक्त प्र.