________________
गच्छा चार
कालिका अपि तीर्थ वर्तमानाः सूत्राधिकृता द्रष्टव्याः २। एतदेव मतान्तरमुपदर्शयन्नाह
'अहवे' त्यादि अथवेति प्रकारान्तरोपदर्शने यस्य ऋषभादेस्तीर्थकृतो यावन्तः शिष्यास्तीर्थे औत्पत्तिक्या १ वैनयिक्या २ कर्मजया ३ पारिणामिक्या ४ चतुर्विधया बुद्धया उपेताः-समन्विता आसीरन् , तस्य ऋषभादेस्तावन्ति प्रकीर्णकसहस्राणि अभवन् । प्रत्येकबुद्धा अपि तावन्त एव । अत्रैको व्याचक्षते। इह एकैकस्य तीर्थकृतः तीर्थेऽपरिमाणानि प्रकीर्णकानि भवन्ति, प्रकीर्णककारिणामपरिमाणत्वात् , केवलमिह प्रत्येकबुद्धरचितान्येव प्रकीर्णकानि द्रष्टव्यानि, प्रकीर्णकपरिमाणेन प्रत्येकबुद्धपरिमाणप्रतिपादनात् । स्यादेतत्सत्येकबुद्धानां शिष्यभावो विरुध्यते, तदेतदसमीचीनम, यतः-प्रव्राजकाचार्यमेवाधिकृत्य शिप्यभावो निषिध्यते, न तु तीर्थकरोपदिष्टशासनप्रतिपन्नत्वेनापि, ततो न कश्चिद्दोषः । तथा च तेषां ग्रन्था-" इह तित्थे अपरिमाणा पइन्नगा पइण्णगसामिअपरिमाणतणओ, किं तु इह सुत्ते पत्तेयबुद्धपणीयं पइन्नगं भाणियव्वं, कम्हा जम्हा पइण्णगपरिमाणेण चेव पत्तेयबुद्धपरिमाण कीरइ, भणियं 'पत्तेयबुद्धावि तत्तिया चेव' त्ति । चोयग आह-नणु पत्तेयबुद्धा सिस्सभावो य विरुज्झए ? आयरिओ आह-तित्थगरपणीयसासणपडिवन्नत्तणओ तस्स सीसा हवन्तीति ।” अन्ये पुनरेवमाहुःसामान्येन प्रकीर्णकैस्तुल्यत्वात्प्रत्येकबुद्धानामत्राभिधानम् , न तु नियोगतः प्रत्येकबुद्धरचितान्येव प्रकीर्णकानीति 'सेत' मित्यादि तदेतत्कालिकं, तदेतदावश्यकव्यतिरिक्तं, तदेतदनङ्गप्रविष्टमिति । इदमपि गाथाछन्दः । पर तल्लक्षणं चेदम्-" विषमाक्षरपादं वा, पादैरसमं दशधर्मवत् । यच्छन्दो नोक्तमत्र, गाथेति तत्सूरिभिः प्रोक्तमिति ॥१॥" (वृत्तरत्नाकरपञ्चमाध्याये) ॥२॥ अथ गाथात्रयेण सदाचारगच्छसंवासे गुणानाह.