________________
हस्साई, पत्तेअबुद्धावि तत्तिा चैव । से ते कालिअं, से तं आवस्सयवइरित्तं, से तं अणंगपविढे । अथैतत् वृत्त्येकदेशो यथा'एवमाइया' इत्यादि कियन्ति नाम नामग्राहमाख्यातुं शक्यन्ते प्रकीर्णकानि, तत एवमादीनि चतुरशीति प्रकीर्णकसहस्राणि भगवतोऽहंतःश्रीऋषभखामिनस्तीर्थकृतः१,तथा सख्येयानि प्रकीर्णकसहस्राणि मध्यमानामजितादीनां जिनवरेन्द्राणां एतानि च यस्य यावन्ति भवन्ति तस्य तावन्ति प्रथमानुयोगतो वेदितव्यानि २, तथा चतुर्दशप्रकीर्णकसहस्राणि भगवतोऽर्हतो वर्द्धमानस्वामिनः ३ । इयमत्र भावना-इह भगवत ऋषभस्वामिनश्चतुरशीतिसहस्रसङ्ख्याः श्रमणा आसीरन्, ततः प्रकीर्णकरूपाणि चाऽध्ययनानि कालिकोत्कालिकभेदभिन्नानि सर्वसङ्ख्यया चतुरशीतिसहस्रसङ्यान्यभवन्। कथमिति चेत् ? उच्यते, इह यत् भगवदर्हदु पदिष्टं श्रुतमनुसृत्य भगवन्तः श्रमणा विरचयन्ति तत्सर्व प्रकीर्णकमुच्यते, अथवा श्रुतमनुसरन्तो यदात्मनो वचनकौशलेन धर्मदेशनादिषु ग्रन्थपद्धतिरूपतया भाषन्ते तदपि सर्व प्रकीर्णकं, भगवतश्च ऋषभस्वामिन उत्कृष्टा श्रमणसम्पदासीत् चतुरशीतिसहस्रप्रमाणा, ततो घटन्ते प्रकीर्णकान्यपि भगवतश्चतुरशीतिसहस्रसङ्ख्यानि १। एवं मध्यमतीर्थकृतामपि सङ्ख्येयानि प्रकीर्णकसहस्राणि भावनीयानि २। भगवतस्तु वर्द्धमानस्वामिनश्चतुर्दश श्रमणसहस्राणि, तेन प्रकीर्णकान्यपि भगवतश्चतुर्दशसहस्राणि ३ । अत्र द्वे मते । एके सूरयः प्रज्ञापयन्ति-इदं किल चतुरशीतिसहस्रादिकमृषभादीनां तीर्थकृतां श्रमणपरिमाणं प्रधानमूत्रविरचनसमर्थान् श्रमणानधिकृत्य वेदितव्यं, इतरथा पुनः सामान्यश्रमणाः प्रभूततरा अपि तस्मिन् तस्मिन् ऋषभादिकाले आसीरन् १। अपरे पुनरेवं प्रज्ञापयन्ति-ऋषभादितीर्थकृतां जीवतामिदं चतुरशीतिसहस्रादिकं श्रमणपरिमाणं, प्रवाहनः पुनरेकैकस्मिन् तीर्थे भृयांसः श्रमणा वेदितव्याः, तत्र ये प्रधानमूत्रविरचनशक्तिसमन्विताः सुप्रसिद्धास्तद्ग्रन्था अत