________________
गन्तुं न शक्नोति । ततः पूर्वोक्ता यतना कर्तव्या ॥ १३॥ अथ सामान्येन यतनामाह-परपक्खपुरिसगिहिणी, असोयकुसलाण मोत्तु पडिवक्खं । पुरिसजयंतमणुण्णे, होति सपक्खेतरावते ॥ १४ ॥ इह प्रथमं पश्चाद्ध व्याख्याय ततः पूर्वार्द्ध व्याख्यास्यते । ये यतमाना:-संविग्नाः साम्भोगिकाः पुरुषास्तैः प्रथम कारयेत् तदभावे अमनो-असाम्भोगिकैस्तदभावे ये इतरे पार्थस्थादयस्तै कारयेत् , एषा स्वपक्षे यतना भणिता, अथैष स्वपक्षो न पाप्यते ततः परपक्खे' त्यादिपूर्वादै परपक्षे गृहस्थान्यतीर्थिकरूपे प्रथम पुरुषैस्ततो गेहिनीभिरपि कारयेत् , तत्राप्यशौचवादिभिः कुशलैश्च कारापणीयं, अत एवाह-अ. शौचवादिकुशलानां प्रतिपक्षा ये शौचवादिनोऽकुशलाश्च तान् मुक्त्वा कारयितव्यम्, अथैतेऽपि न प्राप्यन्ते तदा संयतोभिरपि कारयेत् , तत्रापि प्रथमं मातृभगिन्यादिभिर्नालबद्धाभिस्तदभावे असम्बन्धिनीभिरपि स्थविरामध्यमातरुणीभिर्यथाक्रमं कारयेत् कथं पुनस्तया कण्टक उद्धरणीय इत्याह-॥ १४ ॥ सल्लुद्धरणक्खेण व, अत्थि व वत्यंतरं व इत्थीसु । भूमीकट्ठतलोरुसु, काऊण मुसंवुडा दोवि ॥१५॥ शल्योद्धरणेन 'नक्खेण वत्ति नखहरणिकया वा पादमसंस्पृशन्ती कण्टकमुदरति, अर्थ न शक्यते ततो वस्त्रान्तरितं पादं भूमौ कृत्वा यद्वा काष्ठे वा तले वा ऊरौ वा कृत्वा उद्धरेत द्वावपि च संयतीसंयतो सुसंवतावुपविशतः। एष स्त्रीषु कण्टकमुद्धरतीषु विधिरवगन्तव्यः ॥१५॥एमेव य अच्छिमी, चंपादिढे तु नवरि णाणत्तं । निग्गंथीण तहेव य, णवरिं तु असंवुडा काई ॥१६॥ यथा कण्टकोद्धरणसूत्रे उत्सर्गतोऽपवादतश्चोक्तमेवमेव चाक्षिसूत्रेऽपि सर्वमपि वक्तव्यम, नवरं नानात्वं चम्पादृष्टान्तोऽत्र भवति, यथा-किल चम्पायां सुभद्रया तस्य साधोश्चक्षुषि पतितं तृणमपनीतम्, तथान्यस्य साधोश्चक्षुषि प्रविष्टस्य तृणादे कारणे निन्थ्या अपनयनं सम्भवतीति दृष्टान्तभावायः । निर्ग्रन्थीनामपि