________________
गच्छा चार
॥९२॥
हन्मीति धावितः॥८॥ मृत्वा स्तम्भास्थिघातेन ज्योतिष्केषु सुरोऽभवत्। स च्युतः कनकखले पञ्चशत्यास्तपस्विनाम् ॥९॥ पत्युः कुलपतेः पन्याः सुतोऽभूत् कौशिकाभिधः । तत्र कौशिकगोत्रत्वा-दासन्नन्येऽपि कौशिकाः॥१०॥ स चातिकोपनत्वेन ख्यातोऽभूत् चण्डकौशिकः । मते कुलपतौ तत्र सोऽभूत् कुलपतिस्ततः ॥ ११॥ मूmलुस्तत्र कस्यापि नादात् पुष्पफलादि सः। जग्मुर्दिशोदिशं पश्चात् तापसास्तदनाप्तितः ॥ १२ ॥ अन्यदा कण्टकार्थं च कौशिको गतवान् बहिः। श्वेतम्ब्या एत्य राजन्यैर्भग्नं तस्य वनं तदा ॥ १३ ॥ भज्यते त्वदनं कैश्चिदित्याख्यातेऽस्य गोपकैः । दधावे तत्क्षणात् पशु-पाणिं परशुरामवत् ॥ १४ ॥ दृष्टः कुमारैर्नष्टास्ते धावन् गर्ने पपात सः । कुठारः सम्मुखोऽस्या-भूच्छिरस्तेन द्विधा कृतम् ॥१५॥ मोहात् तत्रैव जज्ञेऽहिदृग्विषश्चण्डकौशिकः । वने तत्र स बभ्राम जीवं दृष्ट्वा दहन क्रुधा ॥ १६ ॥ दृष्ट्वाऽथ स्वामिनं क्रुद्धः किं मां न ज्ञातवानसौ । सूरं वीक्ष्य निरैक्षिष्ट परं नादात प्रभुः॥१७॥ भानु पुनः पुनर्वीक्ष्य वीक्षते स्म प्रभु दृशा । परं प्रभौ विषज्वाला पुष्पमाला इवाभवन् ॥१८॥ ददंश ददशूकोऽथ निःशूकः पादयोः प्रभुम् । परं प्रभौ वज्रसारे दंशदंश इवाभवत् ॥१९॥ दृष्ट्वा दृष्ट्वा क्रुधातीवापचक्रामाथ दृग्विषः । मूच्छितो मद्विषेणैप निपतन्मा ममोपरि ॥२०॥ शैलवन्निश्चलं वीक्ष्य विलक्षोऽथ पुरःस्थतः । पश्यन् मूर्ति प्रभोः शान्तां सुधारसमयीमिव ॥२१॥ निर्विषाक्षः क्षणाजज्ञे ततस्तं स्वाम्यवोचत । चण्डकोशिक बुध्यस्व बुध्यस्व ननु मा मुहः ॥२२॥ तत्समाकर्ण्य तस्याहेरूहापोहादजायत । जातिस्मृतिस्ततः स स्वं निन्दन क्षमयप्रभुम् ॥ २३ ॥ प्रदक्षिणात्रयं दत्वा स्वाम्यग्रेऽनशनं व्यधात् । रुष्टो मा स्म हनं सत्वान् क्षिप्त्वा तुण्डं बिले स्थितः॥२४॥ स्वाम्यस्थात् कृपया तस्य दृष्ट्वा प्रभुमुपागमन् । गोपालवत्सपालाद्या वृक्षावन्तरिताः स्थिताः ॥२५॥ जघ्नुस्ते लेष्टुभिस्त्वेष
॥९॥