SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ष्ठितं जीवस्य-उपयोगलक्षणस्यास्तित्वं शब्दादेव जीव इत्यस्मादनुमीयते कथमेतदेवमित्याह-नासतो-ऽविद्यमानस्य भुवि-पृ| थिव्यां भावस्य-पदार्थस्य शब्दो भवति वाचकः खरविषाणादिशब्दैर्व्यभिचारमाशंक्याह-केवल:-शुद्धोऽन्यपदासंस्पृष्टः खरादिपदसंस्पृष्टाश्च विषाणादिशब्दाः॥४॥ एतद्विवरणायैवाह-अस्थि ति निविगप्पो, जीवो नियमाउ सद्दओ सिद्धी । कम्हा सुद्धपयत्ता, घडखरसिंगाणुमाणाओ॥५॥ अस्तीति निर्विकल्पो जीवः, निर्विकल्स इति-निःसन्दिग्धः नियमात्मतिपश्यपेक्षया. शब्दतः सिद्धिः-वाचकाद्वाच्यप्रतिपत्तितः, एतदेव प्रश्नद्वारेणाह-कस्मादेतदेवमित्याह, शुद्धपदत्वात्-केवलपदत्वाज्जीवशब्दस्य घटखरशृङ्गानुमानादनुमानशब्दः दृष्टान्तवचनः, घटखरशृङ्गदृष्टान्तादिति प्रयोगार्थः, प्रयोगरतु मुख्येनार्थनार्थवान् जीवशब्दः शुद्ध वात् घटशब्दवत् , यस्तु मुख्येनार्थनार्थवान्न भवति स शुद्धपदमपि न भवति, यथा खराशब्दः॥५॥ पराभिप्रायमाशंक्य करहरन्नाह-सुद्धपयत्ता सिद्धी, जइ एवं सुन्नसिद्धि अम्हंपि । तं न भवइ सतेण जं सुन्नं सुन्नगेहं व ॥६॥ उक्तवच्छुद्धपदत्वात् सिद्धिर्यदि जीवस्य एवं तर्हि शून्यसिद्धिरस्माकमपि शून्यनष्टशब्दस्यापि शुद्धपदत्वादित्यभिप्रायः, अत्रोत्तरमाह-तन्न भवति, यदुक्तं परेण कुत इत्याह सता-विद्यमानेन पदार्थेन यत्-यस्मात् शून्य शून्यमुच्यते किंवत्तदित्याह-शून्यगृहमिव यथाहि-देवदत्तेन रहितं शून्यगृहमुच्यते निवृत्तो घटो नष्ट इति । न त्वनयोर्जीवशब्दस्य जीववदविशिष्टं वाच्यमस्तीति ॥ ६॥ प्रकारान्तरेणास्तित्वपक्षमेव समर्थयन्नाह-मिच्छा भवे उ सवत्या, जे केइ पारलोइया । कत्ता चेवोपभुत्ता य, जह जीवो न विज्जइ ॥ ७॥ पारलौकिका दानादयः कर्ता चैव कर्मण उपभोक्ता च तत्फलस्य । एतदेव स्पष्टतरमाह-पाणिदया तव नियमा बभं दिक्खा य इंदियनिरोहो । सबनिरत्थयमेयं जइ जीवो न विजइ ॥८॥ लोइआ वेइआ चेव तहा सामाइआ विऊ ।
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy