SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ गच्छा चार 112011 *KA कैश्चिदप्यपन्होतुं शक्यानीति ॥ १ ॥ एए पंचमहन्भूआ तब्भो एगो त्ति आहिआ । अह तेसिं विणासेणं, विणासो होइ देहिणो ॥ २ ॥ एतान्यनन्तरोक्तानि पृथिव्यादीनि पञ्चमहाभूतानि यानि तेभ्यः कायाकारपरिणतेभ्य एकः कश्चिच्चिद्रूपो भूताव्यतिरिक्तः आत्मा भवति, न भूतेभ्यो व्यतिरिक्तोऽपरः कश्चित्परपरिकल्पितः परलोकयायी सुखदुःखभोक्ता जीवाख्यः पदार्थोऽस्तीत्येवमाख्यातवन्तस्ते, ननु च यदि भूतव्यतिरिक्तोऽपरः कश्चिदात्माख्यः पदार्थों न विद्यते कथं तर्हि मृत इति व्यपदेश इत्याशंक्याह - अथैषां कायाकारपरिणतौ चैतन्याभिव्यक्तौ सत्यां तदूद्ध तेषामन्यतमस्य विनाशे अपगमे वायोस्तेजसो वोभयोर्वा देहिनो देवदत्ताख्यस्य विनाशापगमो भवति, ततथ मृत इति व्यपदेशः प्रवर्त्तते, न पुनर्जीवापगमः ।” इति द्वितीयाshat नास्तिकतपूर्वपक्ष:, अत्र समाधानार्थं श्रीदशवैकालिकनिर्युक्तितः किश्चिदुच्यते - "आत्थि त्ति दारमहुणा, जीवो अथिति विज्जए नियमा। लोगाययमयघायत्थ - मुच्चए तत्थिमो हेऊ ॥ १ ॥ लोकायत मतघातार्थ - नास्तिकाभिप्रायनिराकरणार्थं ॥ १ ॥ जो चिंतेइ सरीरे, नत्थि अहं स इव होइ जीवु त्ति । न हु जीवम्मि असंते, संसयउप्पायओ अन्नो ॥ २ ॥ चिन्त्यति शरीरे नास्त्यहं स एव चिन्तयिता भवति जीवः, न हु-यस्माज्जीवेऽसति मृतदेहादौ संशयोत्पादकोऽन्यः प्राणादिश्चैतन्यरूपत्वात् संशयस्य ॥ २ ॥ एतदेव भावयति - जीवस्स एस धम्मो, जा ईहा अत्थि नत्थि वा जीवो । थाणुमणुस्सागया, जह ईहा देवदत्तस्स ॥ ३ ॥ जीवस्यैषः धर्म्मः -स्वभावः या ईहा - सदर्थपर्यालोचनात्मिकाऽस्ति नास्ति वा जीव इति, लोकप्रसिद्धं निदर्शनमाह - स्थाणुमनुष्यानुगता - किमयं स्थाणुः किं वा पुरुष इत्येवं रूपा यथेहा देवदत्तस्य जीवतो धर्म्मः ॥३॥ प्रकारान्तरेण तदेवाह - सिद्धं जीवस्स अत्थित्तं सद्दादेवाणुमीयए । नासओ भुवि भावस्स सद्दो हवइ केवलो ॥४॥ सिद्धं -प्रति ॥८७॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy