________________
गच्छा चार
॥८६॥
Per
इह च सावादिहेतोरभिधानं निःस्पृहस्यापवादत एतत् प्रयोगे प्रत्युत गुण इति ख्यापनार्थम् ||२||" नाणस्स केवलीण, धम्मायरियस्स संघसाहूणं । माई अवण्णवाई, किविसिय भावणं कुणइ ॥ ३ ॥ " ज्ञानस्य श्रुतज्ञानादेः केवलिनां धर्माचार्यस्यधर्मोपदेशकस्य सङ्घश्च साधवश्च सङ्घसाधवस्तेषां अवर्णवादीति सर्वत्र योज्यम्, तत्रावर्णो-अश्लाघारूपः, स चैवम् श्रुतज्ञानस्य पुनस्त एव कायास्तान्येव व्रतानि तावेव च प्रमादाप्रमादाविहाभिधेयौ मोक्षाधिकारिणां च किं ज्योतियनिपरिज्ञानेनेत्यादि भाषते केवलिनां च ज्ञानदर्शनयोः क्रमेणोपयोगे परस्परावरणता युगपदुपयोगे चैक्यापत्तिरिति, धर्माचार्यस्य जात्यादिभिरधिक्षेपणादीनि सङ्घस्य च बहवः श्वशृगालादिसंघास्तत्कोऽयमिह सङ्कः, साधूनां च नाऽमी परस्परमपि सहन्ते तत एव देशान्तरयायिनोऽन्यथा त्वेकत्रैव संहत्या तिष्ठेयुरत्वरितगतितया मन्दयायिनोऽत एव बकवृत्तिरियमेषामित्यादि, एवंविधमवर्ण वदितुं शीलमस्येत्यवर्णवादी माया - अस्य स्वभावविनिगूहनादिरूपास्तीति मायी किल्बिधिक भावनां करोतीति ॥ ३ ॥ " अणुबद्धरोसपसरो, तह य निमित्तंमि होइ पडिसेवी । एएहि कारणेहिं, आसुरियं भावणं कुणइ ॥ ४ ॥ " अनुबद्धःसततमव्यवच्छिन्नो रोषस्य - क्रोधस्य प्रसरो - विस्तारो यस्य सोऽनुबद्धरोपप्रसरः नित्यं विरोधशीलतया पश्चादननुतापितया क्षामणादावपि मनः प्रसत्यप्राप्त्या चेति भावः तथा च निमित्तं अतीतानागतवर्त्तमानभेदात् त्रिधा तस्मिन् विषये भवति जायते प्रतिसेवीति - अवश्यं प्रतिसेवकोऽपुष्टालम्बनेऽपि तदासेवनात् । एताभ्यां कारणाभ्यामासुरीं भावनां करोति ॥ ४ ॥ मोभावनामा - "सत्थरगहणं विसभक्खणं च, जलणं च जलपवेसो अ । अणयारभंडसेवा, जम्मणमरणाणि बंधंति ॥ ५ ॥ " शस्त्रं-खड्गादि तस्य ग्रहणं-स्वीकरणमुपलक्षणत्वादस्यात्मनि वधार्थं व्यापारणं शस्त्रग्रहणं, विषं- तालपुटादि तस्य भक्षणं विष
VACAN
हचि
॥८६॥