________________
गच्छा चार
11८५॥
यजीवानि यानि तु तबद्धानि तानि असंख्येयजीवानि, स्नुह्यादीनां पुष्पाणि अनन्तजीवानीति तेषां तथा बीजानि शालिगोधमयवादीनि तेषां, त्वगादीनां च आदिशब्दात् मूलपत्राङ्कुरफलादीनां विविधद्रव्याणां-नानाविधसजीवपिण्डानां वनस्पतिकायभेदानामित्यर्थः। सङ्घट्टनं-मनाक्स्पर्शनं परितापनं-सर्वतः पीडनम्, यत्र न कुर्यात् मुनिनिकरः स गच्छ स्यादिति शेषः। कारणे तु वृक्षादीनां सङ्घहादिकं कुर्यादपि यदुक्तमाचाराङ्गद्वितीयश्रुतस्कन्धतृतीयेर्याध्ययनस्य द्वितीयोद्देशके “से भिक्खू वा भिक्खुणी वा गामाणुगाम दुइज्जमाणे अंतरासे वप्पाणि वा फलिहाणि वा पागाराणि वा तोरणानि वा अग्गलाणि वा अग्गलपासगाणि वा गड्डाउ वा दरीउ वा सति परक्कमे संजयामेव परकमेज्जा णो उज्जुयं गच्छेजा, केवली बृया आयाणमेयं, से तत्थ परक्कममाणे पयलेज्ज वा पवडेज्ज वा से तत्थ पयलमाणे पवडमाणे वा स्वखाणि वा गुच्छाणि वा गुम्माणि वा लयाउ वा वल्लीउ वा तणाणि वा गहणाणि वा हरियाणि वा अवलंबिय अवलंबिय उत्तरेजा,जे तत्थ पाडिपहिया उवागच्छति ते पाणी जाएज्जा, ततो संजयामेव अवलंबिय अवलंबिय उत्तरेजा, ततो संजयामेव गामाणुग्गाम दूइजेज्जा । अस्य वृत्तिः-स भिक्षुामान्तराले यदि वपादिकं पश्येत् ततः सत्यन्यस्मिन् संक्रमे तेन ऋजुना पथा न गच्छेत् , यतस्तत्र गदिौ निपतन् सचित्तवृक्षादिकमवलम्बेत तच्चायुक्तम्, अथ कारणिकस्तेनैव पथा गच्छेत् कथंचित्पतितश्च गच्छगतो वल्यादिकमप्यवलम्ब्य प्रातिपथिक हस्तं वा याचित्वा संयत एवं गच्छेदिति । गाथाछन्दः॥८१॥ अथ हास्यादित्याजनद्वारेण प्रस्तुतमेव विशेषयतिहासं खेड्डाकंदप्प, नाहियवायं न कीरए जत्थ । धावणडेवणलंघण-ममकारावण्णउच्चरणं ॥ ८॥
व्याख्या-हारय-हसनं खेला-क्रीडा शारिचतुरङ्गद्यूताद्या अन्त्याक्षरिकाप्रहेलिकादानादिजनिता वा इन्द्रजालकगोलकखे
१८५॥