SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ do व्याख्या-यत्र च गणे शूले विशूचिकायां प्राकृतखाद्विभक्तिलोपः, अन्यतरस्मिन् वा विचित्रे-ऽनेकविधे आतंके-रोगे उत्पन्ने-प्रादुर्भूते सति ज्वलनस्य-अग्नेरुज्ज्वालनं ज्वलनोज्ज्वालनं तदादि न क्रियते, उत्सर्गपदेनेति शेषा, हे मुने ! गौतम ! स गच्छः स्यादिति । गीतिछन्दः ॥ ७९ ॥ बीयपएणं सारूविगाइसाइमाइएहिं च । कारिंती जयणाए, गोयम! गच्छं तयं भणियं ॥८॥ व्याख्या-यत्र गच्छे मुनयो द्वितीयपदेन-उत्सर्गपदापेक्षयाऽपवादपदेनेत्यर्थः, सारूपिकेणादिशब्दात् सिद्धपुत्रकेण पश्चास्कृतेन च, तत्र मुण्डितशिराः शुक्लबासपरिधायी कच्छामबध्नान अभार्याको भिक्षां हिण्डमानः सारूपिका, सभार्याकोऽभा को वा शुक्लाम्बरधरो मुण्डितशिराः सशिखाकोऽदण्डकोऽपात्रक सिद्धपुत्रका, त्यक्तचारित्रवेषः पश्चात्कृतः, तथा श्राद्धेन| गृहीताणुव्रतेन आदिशब्दात् सम्यग्दृष्टिना यथा भद्रकेन च तृतीयादिशब्दादन्यतीर्थिकेन तद्गृहस्थेन च शूले विशूचिकायामन्यतरस्मिन् वा रोगे उत्पन्ने ज्वलनोज्ज्वालनादीति पूर्वगाथात आकर्षणीयम्, यतनया पूर्वपूर्वस्याभावे उत्तरोत्तरेणेत्यर्थः । 'कारिंति' ति कारयन्ति अत्र छन्दोभङ्गनिवृत्तये प्राकृतत्वाद्दीघः, एचमन्यत्रापि ज्ञेयम् । अथवा निशीथपीठोक्ता यतना सा च तत एवावसेया। हे गौतम ! स गच्छो भणित इति । गाथाछन्दः॥८॥ पुप्फाणं बीयाणं, तयमाईणं च विविहदवाणं । संघट्टणपरिआवण, जत्थ न कुज्जा तयं गच्छं ॥८॥ व्याख्या-पुष्पाणि द्विविधानि जलजानि स्थलजानि च, तत्र जलजानि सहस्रपत्रादीनि, स्थलजानि कोरण्टकादीनि, तान्यपि प्रत्येक द्विविधानितबद्धानि अतिमुक्तकादीनि नालबद्धानि च जातिपुष्पप्रभृतीनि, तत्र यानि नालबद्धानि तानि सर्वाणि संख्ये૨૨
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy