________________
HTTP
मन्महावीरस्वामिनः, तथा स्वग्रामे वा परग्रामे वा एतावन्ति गृहाणि मया प्रवेष्टव्यानीत्येष क्षेत्रविषयोऽभिग्रह इति क्षेत्राभिग्रहाः ॥ २ ॥ काले अभिग्गहो पुण, आई मज्झे तहेव अवसाणे । अप्पत्ते सइकाले, आई बिइओ अ चरमम्मि ॥ ३ ॥ काले कालविषयोऽभिग्रहः, पुनरयं आदौ मध्ये तथैव चावसाने भिक्षावेलायाः एतदेव व्याचष्टे, अप्राप्ते भिक्षाकाले यत्पर्य आदाविति आद्यभिक्षाकालविषयः प्रथमोऽभिग्रहः, यत्तु सति प्राप्ते भिक्षाकाले चरति स द्वितीयो मध्यभिक्षाकालविषयोऽभिग्रहः, यत्पुनश्चरमेऽतिक्रान्ते भिक्षाकाले पर्यटति, सोऽवसानविषयोऽभिग्रहः, कालत्रयेऽपि गुणदोषानाह-दिन्तगपडिच्छगाणं, हविज्ज सुहुर्मपि मा हु अचियत्तं । इय अप्पत्ते अइए, पवत्तणं मा ततो मज्झे ॥४॥ ददत्मतीच्छकयोरिति भिक्षादातुरगारिणो भिक्षाप्रतीच्छकस्य च वनीपकादेर्माभूत सूक्ष्ममप्यचियत्तं- अप्रीतिकमित्यस्माद्धेतोरमाप्तेऽतीते च भिक्षाकालेऽटनं न श्रेय इति गम्यते, ' पवत्तणं मा ततो मज्झे 'त्ति अप्राप्ते अतीते वा पर्यटतः प्रवर्त्तनं पुरःकर्मपश्चात्कर्मादिर्माभूत् एतेन हेतुना मध्ये -प्राप्तभिक्षाकाले पर्यटन्तीति कालाभिग्रहाः ॥ ४ ॥ उक्खित्तमाइचरगा, भावजुया खलु अभिगहा होंति । गायंतो व रुदतो, जं देइ निसन्नमाई वा ॥ ५ ॥ उत्क्षिप्तं पाकपिठरात्पूर्वमेव दायकेनोद्धृतं तद्ये चरंति - गवेषयन्ति ते उत्क्षिप्तचरकाः, आदिशब्दान्निक्षिप्तचरका संख्यादत्तिकाः पृष्टलाभिकाः दृष्टलाभिकाः इत्यादयो गृणन्ते, एते गुणिनः कथञ्चिदभेदाद्भावयुताः खश्वभिग्रहा भवन्ति भावाभिग्रहा इति भावः, यद्वा गायन् यदि दास्यति तदा मया गृहीतव्यम्, एवं रुदन् वा निषण्णादिर्घा आदिग्रहणादुत्थितः सम्पति स्थितो यद्ददाति तद्विषयोऽभिग्रहः स सर्वोऽपि भावाभिग्रह उच्यते ॥५॥ तथा ओसकणअहसकण-परम्मुहालंकिएयरो वाबि । भावन्नयरेण जुओ, अहभावाभिग्गहो नाम ॥ ६ ॥ अवष्वष्कन् - अपसरणं कुर्वन्नभिष्वष्कन्
REACHE