SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ गच्छा वापर चार ॥७९॥ भिग्रहाः॥१॥ अट्ठ उ गोयरभूमी, एलुगविक्खंभमित्तगहणं व । सग्गामपरग्गामे एवइयघरा य खित्तम्मि ॥२॥ अष्टौ गोचरभूमयो भवन्ति, ताश्चैताः-ऋज्वी १ गत्वा प्रत्यागतिका २ गोमूत्रिका ३ पतंगवीथिका ४ पेटा ५ अर्द्धपेटा ६ अभ्यन्तरशंबूका ७ बहिःशंबूका ८। तत्र यस्यामेकां दिशमभिगृह्योपाश्रयान्निर्गतः (पं० ३०००) माअलेनैव पथा समश्रेणिव्यवस्थितगृहपडौ भिक्षा परिभ्रमन् तावद्याति यावत् पकौ चरमगृह, ततो भिक्षामगृहन्नेव अपर्याप्तेऽपि प्राञ्जलयैव गत्या प्रतिनिवर्तते सा ऋज्वी १, यत्र पुनरेकस्यां गृहपकौ परिपाट्या भिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्दितीयस्यां ग्रहपङौ भिक्षामटति सा गत्वा प्रत्यागतिका, गत्वा प्रत्यागतिर्यस्यां सा गला प्रत्यागतिकेति व्युत्पत्तेः २, यस्यां तु वामग्रहाइक्षिणगृहे दक्षिणगृहाच वामगृहे भिक्षां पर्यटति, सा गो:-बलीवर्दस्य मूत्रर्ण गोमूत्रिका, तदाकारा गोचरभूमिरपि गोमत्रिका ३. यस्यां तु त्रिचतुरादीनि गृहाणि विमुच्याग्रतः पर्यटति सा पतंगवीथिका, पतङ्ग:-शलभस्तस्येव या वीथिका-पर्यटनमार्गः सा पतङ्गवीथिका, पतङ्गो हि गच्छन्नत्प्लुत्योत्प्लुत्यानियतया गत्या गच्छति एवं गोचरभूमिरपि या पतंगोड्डयनाकारा सा पतङ्गवीथिकति भावः ४, यस्यां तु साधुः क्षेत्रं पेटावच्चतुरस्रं विभज्य मध्यवर्तीनि च गृहाणि मुक्त्वा चतसृष्वपि दिक्षु समश्रेण्या भिक्षामटति सा पेटा, अर्द्धपेटाऽप्येवमेव नवरमपेटासदृशसंस्थानयोर्दिग्द्वयसम्बद्धयोगुहश्रेण्योरत्र पर्यटति, ६, तथा शम्बूकः-शस्तद्वद्या वीथी सा शम्बूका सा द्वेषा, अभ्यन्तरशम्बूका बहिःशम्बूका च, तत्र यस्यां क्षेत्रमध्यभागात् शङ्खवृत्तया परिभ्रमणभङ्गचा भिक्षां गृण्डन् क्षेत्रबहिर्भागमागच्छति सा अभ्यन्तरशम्बूका ७, यस्यां तु क्षेत्रबहिर्भागात् तथैव भिक्षामटन् मध्यभागमायाति सा बहिशम्बका ८, तथा एलुकः-उदुम्बरस्तस्य विष्कम्भ-आक्रमणं तन्मात्रेण मया ग्रहण कर्त्तव्यमिति कस्याप्यभिग्रहो भवति यथा श्री
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy