SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ गाढा अहिविषविसूचिकादयः अगाढाश्च ज्वरादयो रोगातकास्तेभ्योऽन्यत्र न कल्पते, तेषु कल्पत इत्यर्थः।" इति कल्यवेपस्वरूपं । यद्वा कल्पत्रेपशब्देनात्र चैत्रमासाद्यत्वाध्यायिकोत्तरणानन् तरकर्त्तव्यः परम्परागम्यः कश्चित्कर्तव्यविशेष इति । तथा यत्र गच्छे मृदुका:-मार्दवोपेता विनयादिसमन्विता इत्यर्थः निभृतस्वभावा-आलोचनादौ रहस्येऽपि प्रोक्ते गम्भीरस्वभावाः निश्चलचित्ता वा हात्यं-सामान्येन द्रवः-परिहासः परोत्यासनं परोपहास इत्यर्थः हास्यं च द्रवश्व हास्यद्रवौ ताभ्यां विवजिता-रहिताः, विरुद्धा कथा विकथास्ताभिर्मुक्ता-विवजिताः असमञ्जसं-गुज्ञिाभङ्गाद्यन्यायमकुर्वन्तः एवंविधाः सन्तः साधवो गोचरभूम्यर्थं तात्स्थात्तव्यपदेश इति गोचरभूमिलभ्याऽशनाद्यर्थ न निष्पयोजनमित्यर्थः, अत्र विभक्तिलोपः प्राकृतत्वात् । अथवा गोचरभूमयः, ऋज्वी १ गत्वा प्रत्यागतिका २ गोमूत्रिका ३ पतंगवीथिका ४ पेटा ५ अर्द्धपेटा ६ अभ्यन्तरशम्बूका ७ बहिःशंबूका ८ रूपाः क्षेत्राभिग्रहभेदविशेषास्तासां, 'अट्टत्ति अष्टकं तस्मिन् विहरन्तिविचरन्ति भिक्षार्थमिति शेषः, तथा यत्र गच्छे नानाभिग्रहान् दुःकरप्रायश्चितं चानुचरतो मुनीन् क्वचिद् द्वितीयादेः (८३-१३४) इति प्राकृतसूत्रेण द्वितीयार्थे षष्ठीविधानात् दृष्ट्वाति शेषः देवेन्द्राणामपि किं पुनरन्येषां चित्तचमत्कार:-अन्तःकरणाश्चर्य जायते, हे गौतम ! स गच्छः । अत्राधिकारादभिग्रहप्रायश्चितस्वरूपं किश्चिदुच्यते, तत्राभिग्रहा:-द्रव्य १ क्षेत्र २ काल ३ भाव ४ भेदाच्चतुर्विधास्तद्यथा-लेवडमलेवर्ड वा, अमुगं दवं व अज घेत्यामि । अमुगेण व दवेणं, अह दवाभिग्गहो नाम ॥१॥ लेपकृतं-झगारिमभृतिकमलेपकृतं वा वल्लचणकादि अमुकं वाऽनिर्दिष्टनामक मण्डकादि द्रव्यमद्य ग्रहीष्यामि, अमकेन वा दर्वीकुन्तादिना दोयमानमहं ग्रहोष्ये, अथायं द्रव्याभिग्रहो नाम-भिक्षाग्रहणविषयपतिज्ञाविशेष इति, द्रव्या यार्थषष्ठीविधानात् दवा वितस्वरूपं किश्चिदुच्यते, यादवेणं, अह दवाभिग्गही
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy