________________
गच्छा चार
119911
C
योगासम्भवात्, तच्च स्वपरग्रामादिमेदादनेकविधम्, तत्र जलस्थलपययोरप्कायादिसरवोपमर्दनात् संयमविराधना, जलनिमज्जनमकरतन्तुकण्टकाहिचौरश्वापदज्वराद्युत्पादकश्रमादिभ्यस्त्वात्मविराधना । अथ आधाकम्मौदेशिकांतिमत्रिकमिश्रणासाध्यवपूरकान्तिमद्विकभक्तपानपूर्तिबादरमाभृतिकलक्षणाऽविशोधिकोटीनामवयवेन मिलित शुद्धमप्यशनाद्यशुचिवेनेव पूतिकर्म स्यात्, तच्च सूक्ष्मबादरभेदेन द्विविधम, तत्र शुद्धमध्यशनादिकमाधाकर्मभक्तादिगन्धबाष्पाग्निधूमैः सह मिलितं सूक्ष्मपूतिस्तचाचीर्णमादशक्यपरिहारत्वाच्च न दोषकारि । उपकरणभक्तपानभेदेन बादरमपि द्विविधम्, तत्राधार्मिकचुल्लीस्थाल्यादिचहुककडच्छुकोदुखलिकादिषु गतं शुद्धमप्यशनादि उपकरणपूतिः स्यात्, तत्त स्वयोगेन पृथक् संक्रामितं कल्पते, आधाकम्पिकवधारहिंगुलवणजीरकादियुक्तं भक्तपानपूतिः स्यात् । तथा ' आउत्ता कप्पतिप्पे 'त्ति आयुक्ता - उद्यताः सावधाना वा यत्र गच्छे साधवः स्युः कयोः कल्पश्च त्रेपश्च कल्पनेपौ तयोः तत्र कल्पो - भोजनानन्तरं पात्रादिधावनरूपः, स च सामान्येन सर्वत्र कल्पसप्तकरूपः विशेषतस्तु जघन्यमध्यमोत्कृष्टभेदेन त्रिधा, कथं ओदनमण्डकयवक्षोदकुल्माषराजमुद्गचव लकचव लिकावृत्तचणकसामान्यचणक निष्पावतुबरीमसूरमुद्गाद्यलेपकृदाहारे गृहीते सति एकः पात्रस्य मध्ये कल्पो द्वितीयो बहिः तृतीयस्तु सर्वत्रेति कल्पत्रयरूपो जघन्यः १, शाकपेयायवागू कोद्रवौदन राजमुद् गदाल्यादिसौवीरतीमनाद्यल्पलेप कृदाहारे गृहीते सति द्वौ कल्पौ पात्रस्य मध्ये ततो द्वौ बहिः तत एकः सर्वत्रेतिकल्पपश्चकरूपो मध्यमः २, तथा दुग्धदधिक्षीरेयीतैलघृतगुडपानका दि बहुलेपकृदाहारे गृहीते कल्पत्रयं मध्ये ततो द्वौ वहिः ततो द्वौ सर्वत्रेतिकल्पसप्तकरूप उत्कृष्टः ३, इति वृद्धवादः । हस्ते तु मणिबन्ध
१ राजभाष, प्र० २ यवाकगू प्र०
॥७७॥