________________
HEARRESEARCHRIERIES
निमित्तं कल्पितमशनाद्यादेशं ३, साधूनां निमित्त कल्पितमशनादिसमादेशं ४, तत एवं योजना विवाहादिप्रकरणे स्वजनादिभुक्तोद्धरितमोदनतीमनदधिमोदकचूर्णादिभक्तं तदवस्थमेव चतुर्णा पूर्वोक्तानां निमित्तमुद्दिशति-मनसा संकल्पयति वाचा वा निर्दिशति गृहस्था, यथा समस्तभिक्षुकेभ्य इदं दातव्यमित्युद्दिष्टौद्देशिक १, पाखण्डिकेभ्य इदं दातव्यमिति उद्दिष्टसमुद्देशिकं २, श्रमणेभ्य इद दातव्यमित्युद्दिष्टादेशिकं ३, निग्रन्थे य इदं दातव्यमित्युदिइसमादेशिक ४, तथा विवाहादिप्रकरणे भुक्तोद्धरितमोदनमोदकचूर्णादिकं दधितीमनविकटफाणितनि अनघृतादिना तदर्थमेव मिश्रं करम्बकादिलक्षणं कृत्वा मनसा संकल्पयति, वाचा वा निर्दिशति, पूर्वोक्तन्यायेन यथा इदं समस्तभिक्षुकेभ्यो दातव्यमिति कृतोदेशिकं १, पाखण्डिकेभ्यो दातव्यमिति कृतसमुद्देशिकं २, श्रमणेभ्य इदं दातव्यमिति कृतादेशं ३, निर्ग्रन्थेभ्य इदं दातव्यमिति कृतसमादेशं ४, तथा च विवाहादिप्रकरणोपभुक्तावशेष यन्मोदकचूर्णमुद्गौदनादिकं तदर्थमेवाग्नितापितगुडादिना पुनर्मोदकादि विधाय मृद्गादीन् वा पुनः संस्कृत्य सचित्तजललवणप्रभृतिद्रव्यसन्मिश्रदध्यादिना करम्बकं वा कृत्वा चतुर्णी पूर्वोक्तन्यायेन संकल्पयति निर्दिशति च, यथा समस्तभिक्षुकेभ्यो दातव्यमिदमिति कम्मौद्देशिक १, पाखण्डिकेभ्यो दातव्यमिति कर्मसमुद्देशिकं २, श्रमणेभ्यो दातव्यमिदमिति कादेशिकं ३, निर्ग्रन्थेभ्यो दातव्यमिति कर्मसमादेशिकमिति । अथ अभ्याहृत्तमाचीर्णानाचीर्णभेदाद् द्विधा, तत्राचीर्णमपि जघन्यमध्यमोत्कृष्टभेदात् त्रिधा, तत्र महत्याम्भोक्तृजनपङ्क्तौ दरप्रवेशे तथाविधगृहे वा पङ्क्तिस्थितगृहत्रये वा साधुसङ्घाटकस्य भिक्षां जिघृक्षोस्तहानार्थ यद्भक्तादि कश्चिद्धस्तशतादानयति तदुत्कृष्टमाचीर्णाभ्याहृतं तत्रोपयोगसम्भवात्, हस्तपरिवर्तरूपं तु जघन्याचीर्णाभ्याहृतं, शेषं तु मध्यममिति । अनाचीर्ण तु हस्तशतात् परता समानीतं तत्रोप