________________
गच्छा
चार
॥७६॥
EKKKKK45441
अबिंदुपमानमित्तमवि आहारं आहारितए नन्नत्य आगाढेसु रोगायंकेसु "त्ति एतद्वृत्तिलेशो यथा - " त्वक्प्रमाणमात्रं नामतिलतुषत्रिभागमात्रं तच्चाशनस्य घटते, भूतिप्रमाणमात्रं सक्तुकादीनां, तोयबिन्दुप्रमाणमात्रं पानकस्य, इदमेवापवदति आगाढेभ्यो रोगातकेभ्योऽन्यत्र न कल्पते" तेषु पुनः कल्पते इति सूत्रार्थः । अथ निर्युक्तिविस्तरः- “ परिवासिअ आहारस्स मग्गणे" स्यादि बहुत परं किञ्चिल्लिख्यते - "मिच्छत्ता संचइए, विराहणा सत्तुपाणजाईओ । संमुच्छणा य तक्कण, दवे अ दोसा इमे हुति ॥ १ ॥ अशनादिपरिवास्यमानं दृष्ट्वा शैक्षोऽन्यो वा मिध्यात्वं गच्छेत्, उड्डाहं वा कुर्यात् अहो अमी असंचयिकाः, परिवासिते तु संयमात्मविराधना भवति, सक्तुकादिषु धार्यमाणेषु ऊरणिकादयः प्राणजातयः सम्मूर्च्छन्ति, पूपलिकादिषु लालादिसम्मूर्च्छना च भवति, उदरो वा तत्र तर्कणं- अभिलाषं कुर्वन् पार्श्वतः परिभ्रमन् मार्जारादिना भक्ष्यते, एवमादिका संयमविराधना, आत्मविराधना च तत्राशनादौ लालाविषः सर्पों लालां मुश्चेत्, त्वग्विषो वा जिघ्रन् निःश्वासेन विषीकुर्यात् उदरो वा लालां मुश्चेत्, द्रवे चाहारे एते वक्ष्यमाणा दोषा भवन्तीत्यादि । " अथ औदेशिकमोघविभागभेदाद् द्विधा, तत्र स्वार्थमग्निज्वालनस्थाल्यारोपणादिकपाकाद्यारम्भे यः कश्चिदागमिष्यति, तस्य दानाथै यः क्रियानपि भागः कल्पते तदोघौदेशिकं विभागौद्देशिकं तु उद्दिष्ट १ कृत २ कम्मे ३ ति मूलभेदानां प्रत्येकं उद्देशसमुद्देशादेशसमादेशरूपोत्तरभेदैर्द्वादशविधं यथा उद्दिष्टोद्देशं १ उद्दिष्टसमुद्देशं २ उद्दिष्टादेशं ३ उद्दिष्टसमादेशं ४ कृतोद्देशं ५ कृतसमुद्देशं ६ कृतादेशं ७ कृतसमादेशं ८ कम्मे देश ९ कर्मसमुद्देशं १० कर्मादेशं ११ कर्मसमादेशं १२ इति । उत्तरभेदानां अर्थों यथा समस्तार्थिनां निमित्तं कल्पितमशनाद्युद्देशं १, चरकादीनां निमित्तं विवक्षितमशनादिसमुद्देशं २, निर्ग्रन्थशाक्य तापसगैरिकाजीविकानां
134343
चि
॥७६॥