________________
धिप्रकार इति ५। तथा 'संभिन्ने'त्ति पदैकदेशे पदसमुदायोपचारात् सम्भिन्नश्रोतो लब्धिः सम्भिन्नानि-एकैकश: सर्वविषयैः संगतानि श्रोतांसि-इन्द्रियाणि यस्य स तथा तस्य लब्धिःसम्भिन्नश्रोतो लब्धिः, उक्तश्च-"सर्वेन्द्रियाणां विषयान् , गृण्हात्येकमपीन्द्रियम् । यत्प्रभावेण सम्भिन्न-श्रोतोलब्धिस्तु सा मता ॥१॥६, तथा 'ओहित्ति अवधिज्ञानल ब्धिमूर्तद्रव्यविषयं ज्ञानम्, उक्तञ्च-" द्रव्याणि मूर्तिमन्त्येव, विषयो यस्य सर्वतः । नैयत्यरहितं ज्ञानं, तत्स्यादवधिलक्षणम् ॥१॥" ७ तथा ऋजुमतिलब्धिरर्द्धतृतीयोच्छ्याङ्गुलन्यूनमनुष्यक्षेत्रवर्तिसज्ञिपञ्चेन्द्रियमनोद्रव्यप्रत्यक्षीकरणहेतुर्मनःपर्यावज्ञानभेद:, । विपुलमतिलब्धिस्तु विशुद्धतरः सम्पूर्णमनुष्यक्षेत्रवर्तिसज्ञिपञ्चेन्द्रियमनोद्रव्यप्रत्यक्षीकरणहेतुर्मनःपर्यायज्ञानभेद एव, उक्तश्चस्यान्मनःपर्ययोज्ञानं, मनुष्यक्षेत्रवर्तिनाम् । माणिनां समनस्कानां, मनोद्रव्यप्रकाशकम् ॥१॥ ऋजुश्च विपुलश्चति, स्यान्मनःपर्ययो द्विधा । विशुद्धयातिपाताभ्यां, विपुलस्तु विशिष्यते ॥२॥८, ९, तथा 'चारण'त्ति अतिशयचरणाश्चारणास्ते च द्विधा, जंघाचारणा विद्याचारणाच, अथवाऽन्येऽपि बहभेदाचारणा भवन्ति, तथा चोक्तं योगशास्त्रवृत्तावेव "द्विविधाश्चारणा ज्ञेया, जंघाविद्योत्थशक्तितः । तत्राद्या रुचकद्रीपं. यान्त्येकोत्पातलीलया ॥१॥ वलंतो रुचकद्वीपादेकेनोत्पतनेन ते । नन्दीश्वरे समायान्ति, द्वितीयेन यतो गताः ॥२॥ ते चोर्द्धगत्यामेकेन, समुत्पतनकर्मणा । गच्छन्ति पाण्डुकवनं, मेरुशैलशिरःस्थितम् ॥ ३ ॥ ततोऽपि वलिता एको-त्पातेनायान्ति नन्दनम् । उत्पातेन द्वितीयेन, प्रथमोत्पातभूमिकाम् ॥ ४ ॥ विद्याचारणास्तुगच्छ-त्येकेनोत्पातकर्मणा । मानुषोत्तरमन्येन, द्वीपं नन्दीश्चराहुयम् ॥५॥ तस्मादायान्ति चैकेनोत्पातेनोत्पतिता यतः। यान्त्यायान्त्यू मार्गेऽपि तिर्यग्यानक्रमेण ते ॥६॥" अन्येऽपि बहुभेदाश्चारणा भवन्ति,