________________
गच्छा चार
॥७२॥
तेयग २३-आहारग २४ सीयलेसा य २५॥३॥ वेउविदेहलद्धी २६, अक्खीणमहाणसी २७ पुलागा य २८ । परिणाम-. तववसेणं, एमाई हुंति लद्धीओ ॥ ४॥ इह लब्धिशब्दस्य प्रत्येकमभिसम्बन्धात् 'आमोसहिलद्धि' ति आमर्शो-हस्तादिना स्पर्शः औषधिर्यस्य स आमौंषधिस्तस्य स एव वा लब्धिलब्धिमतोरभेदविवक्षणाल्लब्धिः-सम्पदामपौषधिरेवमग्रेऽपि ज्ञेयम् १। 'विप्पोसहि' ति विपुड्-उच्चारः पुरीषमिति यावत् औषधिर्यस्य स तथा तस्य स एव वा लब्धिः विघुडौषधिलब्धिः२। | 'खेलोसहि'त्ति खेल:-श्लेष्मः३।'जल्लोसहि' त्ति जल्ला-कर्णदन्तनासिकानयनजिहोद्भवः शरीरसम्भवश्च मला ४। 'सबोसहि' ति. सर्वे विप्मूत्रकेशनखादय उक्ता अनुक्ताश्च औषधयो यस्य स तथा, उक्तं च योगशास्त्रप्रथमप्रकाशवृत्तौ श्रीहेमचन्द्रसूरिपादः" योगिनां कायसंस्पर्शः, सिञ्चन्निव सुधारसैः । क्षिणोति तत्क्षणं सर्वा-नामयानामयाविनाम् ॥१॥ योगिनां योगमाहात्म्यात् , पुरीषमपि कल्पते । रोगिणां रोगनाशाय, कुमुदामोदशालि च ॥२॥ तथाहि योगमाहात्म्या-द्योगिनां कफबिन्दवः। सनत्कुमारादेरिव, जायन्ते सर्वरुछिदः ॥ ३ ॥ मला किल समानातो, द्विविधः सर्वदेहिनाम् । कर्णनेत्रादिजन्मैको, द्वितीयस्तु वपुर्भवः ॥ ४॥ योगिनां योगसम्पत्ति-माहात्म्याद् द्विविधोऽपि सः । कस्तूरिका परिमलो, रोगहा सर्वरोगिणाम् ॥६॥ नखाः केशा रदाश्चान्य-दपि योगिशरीरगम् । भजते भेषजीभाव-मिति सौषधिः स्मृता ॥६॥ तथाहि तीर्थनाथानां, योग| भृच्चक्रवर्तिनाम् । देहास्थिशकलस्तोमः, सर्वस्वर्गेषु पूज्यते ॥७॥" किञ्च-मेघमुक्तमपि वारि यदङ्गसङ्गमात्रान्नदीगतमपि सर्वरोगहरं भवति, तथा विषमृच्छिता अपि यदीयाङ्गसनिवातस्पर्शादेव निर्विषी भवन्ति, विषसम्पृक्तमप्यन्नं यन्मुखपविष्टमविषं भवति, महाविषमव्याधिबाधिता अपि यद्वचः श्रवणमात्राद्दर्शनमात्राच्च वीतविकारा भवन्ति, एषः सर्वोऽपि सवौंष
॥७२॥