SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ | वायामित्तण विजत्थ, भट्ठचरिअस्स निग्गहं विहिणा।बहुलद्धिजुअस्सावी, कीरइ गुरुणा तयं गच्छं ७१ व्याख्या-वाझ्मात्रेणापि किं पुनः कायेनेत्यपि शब्दार्थः, यत्र गच्छे भ्रष्टचरितस्य-खण्डितचारित्रस्य साधोः 'निमा ति, नपुंसकत्वं प्राकृतत्वात् , निग्रहो-दण्डो विधिना आगमोक्तप्रकारेण, कयम्भूतस्य बहुलब्धियुतस्यापि-आमपौषध्यायनेकलब्धिसमन्वितस्यापि क्रियते-विधीयते गुरुणा आचार्येण क्षुल्लकस्येव पित्रा स गच्छः स्यादिति क्षुल्लकसम्बन्धश्चायम् वसन्तपुरे देवप्रियः श्रेष्ठी, यौवमे भार्या मृता, पुत्रेणाष्टवार्षिकेण सह प्रबजितः । इतश्च स क्षुल्लकः परीषदाध्ययानो वक्ति-तात ! न शक्नोमि भिक्षाटनं कर्त, ततः पिता आनीय दचे, एवं भूमौ न संरतारयितुं शक्नोमि, ततः पिता फल| कमर्पयति, एवं लोचस्थाने क्षौर कारयति, प्रक्षालयत्यनं प्रासुकनीरेण, पुनर्वक्ति तात ! न शक्नोमि ब्रह्मव्रतं पालयितुं, ततोऽयोग्योऽयमिति पित्रा निष्काशितः, मृत्वा महिषो जातः, पिता चारित्रमाराध्य देवो जातः, अवधिना सुतं महिष पश्यति, सार्थवाहरूपं कृत्वा तं महिषं गुरुभारं वाहयन् तात ! न शक्नोमीत्यादिपूर्वभवोक्तं पुनः पुनः कथयन् स्मारयति, तस्य जातिस्मरणं उत्पन्नम्, गृहीतानशनो महिषो मृत्वा वैमानिकदेवो जात इति चल्लककथा । अत्राधिकारात् आमौंपध्यादिलब्धिस्वरूपं लिख्यते___आमोसहि १ विप्पोसहि २ खेलोसहि ३ जल्लोसही ४ चेव । सबोसहिसं भिन्ने ६, ओही ७ रिउ ८ विउलमाबद्धी ९ ॥१॥ चारण १० आसीविस ११ केवली अ १२, गणधारिणो अ १३ पुबधरा १४ । अरिहंत १५ चक्कवट्ठी १६, बलदेवा १७ बासुदेवा १८ य॥२॥ खीरमहुसप्पिासव १९-कोट्टयबुद्धी २० पयाणुसारी य। तह बीयबुद्धि २२
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy