________________
न निर्वहति ब्रह्मचर्यमिति । गोथाछन्दः॥ ६७ ॥ | सवत्थेसु विमुत्तो, साहू सव्वत्थ होइ अप्पवसो। सो होइ अणप्पवसो, अजाणं अणुचरंतो उ॥६॥
व्याख्या-सर्वार्थषु विमुक्तः-सर्वपदार्थेषु ममतारहितः साधुमेक्षिसाधकः सर्वत्रात्मवशो भवति न कुत्रापि परवशः, स पुनर्मुनिर्भवत्यनात्मवश:-परवशः किं कुर्वन्नित्याह 'अज्जाणं 'ति'कचिद् द्वितीयादेः (८-३-१३४) इति प्राकृतसूत्रेण द्वितीयास्थाने षष्ठीविधानात् आर्याः-साध्वीरनुचरन-साध्वीनां किङ्करत्वं कुर्वन्नित्यर्थः तुः-पुनरर्थे इति । गाथाछन्दः ॥६॥ खेलपडिअमप्पाणं, न तरइ जह माच्छिआ विमोएउं। अजाणुचरो साह, न तरह अप्पं विमोएउ।६९ ।
व्याख्या-श्लेष्मपतितमात्मानं न शक्नोति, यथा मक्षिका विमोचयितुं-पृथक् कत्तु एवमार्यानुचरः-साध्वीपानबद्धपादः साधुन शक्नोति आत्मानं विमोचयितुं जिनाज्ञया प्रामादिषु विहरणार्थमिति । गाथाछन्दः ॥६९॥ साहुस्स नत्थि लोए अज्जासरिसी हुबंधणे उवमा। धम्मेण सह ठवंतो, नय सरिसो जेण असिलेसो।७०।
व्याख्या-लोके-जगति साघो:-मुनेरासहशी हु-निश्चित बन्धने उपमा नास्ति, अविधिना आर्या परिवर्तयतः | साधोरा-सदृशमन्यत्कर्मबन्धस्थान नास्तीत्यर्थः, तथा धर्मण सह वर्तमानस्येति शेषः, 'ठवितो'त्ति विभक्तिव्यत्ययात् आर्याः | स्थापयतः प्रक्रमाद्धर्म एव यासां सहशोऽश्लेषो-अबन्धनं नच नैवास्ति, कोऽर्थः यः स्वयं धर्मवान् विधिपरिवर्त्तनेनार्या धर्म || स्थापयति तस्यास दशमन्यत् कर्म(मा)बन्धस्थानमुपलक्षणत्वात्कर्मनिर्जरास्थानं च नैवास्तीत्यर्था,तथा चोक्तं-निश्चीथपंचदशो