SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ गच्छा चार ॥६९॥ लमङ्गोपाङ्गालोकनालापादिकरणरूपो यस्याः सा तथा तया दृष्टमात्रया राजीमत्या स्थनेमिमुनेरिव तथा हि-यदा श्रीनिमिः प्रव्रजितस्तदा रथनेमिज्येष्ठभ्राता राजीमतीमुपचरति सा मामिच्छेदिति सा भगवती निर्विभकामभोगा अन्यदा तदमिमाय ज्ञात्वा मधुघृतसंयुता पेया पीता तस्मिन् आगते तथा मदनफलाघ्राणेन वान्ता उक्तश्च-एता पेयां पिब, रयनेमिसचे कार्य वार्त पीयते ? सा पाह-अहं श्रीनेमिना वान्ता कथं पातुमिच्छसि । घिर त्थु ते जसोकामी, जो तं जीषियकारणा । वंत इच्छसि आवेउं से ते मरणं भवे ॥ १॥ धिगस्तु ते तव पौरुषमिति गम्यते हे यशस्कामिन् ! सासूर्य क्षत्रियामन्त्रणं अथवाऽकारप्रश्लेषादयशःकामिन् धिगस्तु तव यस्त्वं जीवितकारणार-असंयमजीवितहेतोर्वान्तमिच्छस्यापातुं श्रेयस्ते मरणं भवेत् । रथनेमिः सम्बुद्धः प्रव्रजितः राजीमत्यपि प्रव्रजिता, अन्यदा रथनेमिरवत्यां भिक्षामाहिण्ड य स्वामिसकाशमागच्छन् वृष्टयाभ्याहतो गुहामनुपविष्टः, राजीमती स्वामिनं पन्दित्वा प्रतिश्रयमागच्छन्ती वृष्टयान्तरा तामेव गुहामायाता। स्थनेमिस्तां दृष्ट्वाऽध्युपपन्नः, सा ज्ञात्वेदम वोचत् ॥२॥ अहं च भोगरायरस, तं च सि अंधगवन्हिणो। मा कुले गंधणा होमो, संजमं निहुओ चर ॥२॥ अहं च भोगराज्ञ:-उग्रसेनस्य दुहितेति गम्यते, त्वं च भवस्यन्धककृष्णे:-समुद्रविजयस्य सुत इति गम्यते, अतो मा एकैकमधाने कुल आवां गन्धनौ भूवः-जघन्यसर्पतुल्यावित्यर्थः, अतः संयम निभृतश्चर" इत्यादि गाथाछन्दः॥६६॥ सवत्थ इथिवग्गमि, अप्पमत्तो सया अवसित्थो। नित्थरइ बंभचेरं, तविवरीओ न नित्थरइ ॥७॥ व्याख्या-सर्वत्र-सर्वस्मिन प्रजितापवजितरूपे स्त्रीवर्ग अप्रमत्तः-निद्राविकथादिप्रमादरहितः सदा-सर्वकालं अविश्वस्तो-विश्वासरहितश्च सन् निस्तरति-पालयतीत्यर्थः, ब्रह्मचर्य-मैथुनत्यागरूपं तद्विपरीत:-उक्तविशेषणरहितो न निस्तरति ॥६९॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy