________________
खलु बन्धनं स्त्रियः॥८॥ आर्यासंसगवर्जने कारणमाह-खुः-यस्मादर्थे ततोऽयमर्थः यस्मात्कारणात् आर्यानुचरः साधु:मुनिर्लभते-पाप्नोति अकीर्ति-असाधुवाद अचिरेणेति-रतोककालेनेति । गाथाछन्दः॥६॥ थेरस्स तवस्सिस्स व, बहुस्सुअस्स व पमाणभूयस्स । अज्जासंसगीए, जणपणयं हविजाहि ॥ ६४॥
व्याख्या-स्थविरस्य-वृद्धस्य तपस्विनो वा-तपोयुक्तस्य बहुश्रुतस्य वा-अधीतबह्वागमस्य प्रमाणभृतस्य वा-सर्वजनमान्यस्य एवंविधस्यापि साधोः आर्यासंसा-साध्वीप रिचयेन 'जणपणयं' ति जनवचनीयता-जनापवाद इत्यर्थः भवेदिति। गाथाछन्दः॥ ६४ ॥ अथ यद्येवंविधस्याप्यार्या संसा जनापवादः स्यात् तर्हि एतद्विपरीतस्य का कथेत्याहकिं पुण तरुणो अबहुस्सुओ अनय वि हु विगिट्ठतवचरणो। अजासंसग्गीए,जणजपणयं न पाविजा ६५
व्याख्या-तरुणो-युवा अबहुश्रुतश्च-आगमपरिज्ञानरहितः न चापि हु विकृष्टतपश्चरणो-न दशमादितपा-कर्ता एवंविधो मुनिरासिंसर्या जनवचनीयतां किं पुनर्न प्राप्नुयात् अपि तु माप्नुयादेवेत्यर्थः। गाथाछन्दः॥६५॥ एतदपि कुत इत्याहजइवि सय थिरचित्तो, तहवि संसग्गिलद्धपसराए । अग्गिसमीवे व घयं, विलिज चित्तं खु अजाए।६६। ___ व्याख्या-यद्यपि स्वयमात्मना स्थिरचित्तो-दृढान्त:करणः साधुः तथापि तस्येति शेषः, आर्यायाः संसा प्राकृतत्वात् विभक्तिलोपः, लब्धप्रसरया-प्रसरणवत्या अग्निसमीपे घृतमिव खु-निश्चयेन चित्तं-मनो विलीयेत-शैथिल्य भजेत् अथवा संसर्गिलब्धप्रसरया आर्यया तस्य चित्तं विलीयेत । तत्र संसों गमनागमनादिना संगत्यां मुनिना लब्धमसर:-कियत्का