SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ न्तार्थ-मूत्रार्थानुचिन्तनादिलक्षणशुभचित्तप्रणिधानार्थ एतदपि बुभुक्षितः कर्तुं न शक्नोतीति ६, अत्र-मुजीतेति क्रियाशेषः सर्वत्र सम्बन्धनीयः। अत्र प्रसङ्गतोऽभोजनकारणान्यपि पडुच्यन्ते-" आर्यके १ उवसग्गे, तितिक्खया २ बंभवेरगुत्तीसु ३ । पाणिदया ४ तवहेउँ ५, सरीरवोच्छेअणट्ठाए ६ ॥१॥" आतङ्के-ज्वरादावुत्पन्ने सति न सुनीत १, तथा उपसर्ग-राजस्वजनादिकृते देवमनुष्यतिर्यक्कृते वा सजाते सति तितिक्षार्थ-उपसर्गसहनार्थ २, तथा ब्रह्मचर्यगुप्तिष्विति अत्र षष्ठ्यर्थे सप्तमी ततोऽयमर्थः-ब्रह्मचर्यगुप्तीनां परिपालनाय ३, तथा प्राणिदयार्थ-वृष्टिमहिकामूक्ष्ममंडूकादिरक्षार्थ ४, तथा तपोहेतो:-तपःकरणनिमित्तं ५, तथा चरमकाले शरीरव्यवच्छेदार्थ ६, सर्वत्र न भुञ्जीतेति क्रियासम्बन्ध इति । गाथाछन्दः॥ ५९॥ अथ पुनरपि गच्छस्वरूपमेवाह जत्थ य जिट्ठकणिट्ठो, जाणिजइ जिट्ठवयणबहुमाणो, दिवसेण वि जो जिहो, न य हीलिज्जइ स गोअमा गच्छो ॥ ६०॥ व्याख्या-यत्र च गणे ज्येष्ठः कनिष्टश्व ज्ञायते, तत्र ज्येष्ठः-पर्यायेण वृद्धः कनिष्टः पर्यायेण लघुः, तथा यत्र ज्येष्ठस्य वचन-आदेशो ज्येष्ठवचनं तस्य बहुमान:-सन्मानः ज्ञायते, 'जिविणयबहमाणो'त्ति पाठे तु ज्येष्ठस्य विनयबहुमानौ ज्ञायते, तथा यत्र च दिवसेनापि यो ज्येष्ठः स न हील्यते, चकाराद्यत्र पर्यायेण लघरपि गुणद्धौ न होल्यते सिंहगिरिशिष्यैर्वजशिशुरिव, हे गौतम ! स गच्छो ज्ञेय इति । गीतिच्छन्दः ॥६०॥ अथार्याव्यतिकरण गच्छ स्वरूपमेव गाथादशकेनाहजत्थ य अज्जाकप्पो, पाणच्चाएविरोरदभिक्खे।नय परिभुजइ सहसा,गोयम गच्छं तयंभणियं ॥१॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy