________________
गच्छा चार
॥६
॥
व्याख्या-तमपि निर्दोषाहारमपि न रूपरसाथै रूपं च-लावण्यं रसश्च-भोजनास्वादस्तदर्थ, न च-नैव वर्णार्थ-शरीरश्लाघार्थ गौरताद्यर्थ वा, न चैव दप्पार्थ-अनङ्गवृद्धयर्थ, किन्तु संयमभरवहनार्थ-चारित्रभारनिर्वहणार्थ शरीरस्याधारमात्रभृतं साधुर्दद्यादिति शेषः । अत्र दृष्टान्तमाह-'अक्खोवंग व वहणत्थं' ति अक्षोपाङ्गमिव वहनाथ अयमभिप्राय:-यथा अक्षस्य-धुर उपाङ्गो-ऽभ्यअनं नवनीतादि तच्च तावन्मात्रमेव दीयते यावता शकटमनायासेन भारमुबहति, न चास्तीति कृत्वा प्रकामं नवनीतादेरभ्यअनस्य दानं निष्फलत्वात् , एवं साधुनापि यावता दशविधचक्रवालसामाचारीस्वाध्यायभिक्षाचक्रमणादिक्रियासमर्थ शरीरादि भवति तावन्मात्रमेवाभ्यवहार्य, नातिरिक्तं रूपाद्यर्थमिति । गाथाछन्दः ॥५८॥ अयेह पद्भिः कारणैः साधोराहारमाहारयति-पभिरेव च कारणैराहारं परित्यजति तत्र यैः षभिः कारणैराहारमाहारयति तानि दर्शयतिवेअण १ वेयावच्चे २, इरिअट्ठाए य३संजमट्ठाए । तह पाणवत्तिआए ५, छटुं पुण धम्मचिंताए ॥५९॥
व्याख्या-पदैकदेशे पदसमुदायोपचारात् 'वेअण'त्ति क्षुद्वेदनोपशमनाय भुञ्जीत, यतो नास्ति क्षुत्सदृशी वेदना । उक्त च-"पंथसमा नत्थि जरा, दारिद्दसमो अ परिभवो नत्थि । मरणसम नत्थि भय, छुहासमा वेदणा नत्थि ॥१॥ नत्थि ज न वाहइ, तिलतुसमित्तपि एत्थ कायरस । सन्निझं सबदुहाइ, दिति आहाररहिअस्स ॥२॥"१, तथा बुभुक्षितः सन् वैयावृत्त्यं कर्तुं न शक्नोति अत आचार्यादीनां वैयावृत्त्यकरणाय २, तथा ईर्थ-ईसिमित्यर्थ ३, तथा संयमः-प्रत्युपेक्षणाप्रमार्जनादिलक्षणः साधुव्यापारः तत्पालनाथै, बुभुक्षित एनं कर्तुं न शक्नोतीति ४ , तथा माणा-जीवितं प्राणो वा-स्थानं तत्प्रत्ययार्थ-तत्सन्धारणार्थ यतो बुभुक्षितस्स तद् द्वयमपि परिहीयते ५, तथा षष्ठं पुनः कारणं धर्मचि
॥६२॥