SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ वसतेरन्तर्बहिर्मेदात् , अन्तः संयोजनापात्रकवलवदनभेदात विधा, तत्र पात्रे मण्डकगुडघृतादिरसमृदथा संयोज्य भक्षयति एषा पात्रसंयोजना, एतान्येव कक्ले हस्तस्थिते संयोजयति एषा कवलसंयोजना, वदने कवलं प्रक्षिप्य ततः शालनक प्रक्षिपति, यद्वा मण्डकादिकं पूर्व प्रक्षिप्य पश्चात् गुडादिकं प्रक्षिपति एषा वदनसंयोजना, किश्च उपकरणं गवेषयत एव साधोश्चोकपदृकायाप्तौ विभूषाप्रत्ययमन्तरकरपं याचित्वा परिभुआनस्य बहिरुपकरणसंयोजना दसतौ चागत्य तथैव परिभुभानस्य अन्तरुपकरणसंयोजनेत्यायपि द्रष्टव्यमिति । कारणे तु संयोजनापि भवति । यदाह-" रसहेउं संजोगो, परिसिद्धो कप्पए गिलाणहा । जस्स व अभक्तछंदो, सुहोचिोऽभाविओ जो य ॥१॥" रसहेतोः प्रतिषिद्धसंयोगो ग्लानार्य तु कल्पते यद्वा यस्य अभक्तछन्दो-भक्तारुचिर्यश्च सुखोचितो राजपुत्रादिर्यश्चाद्याप्यभावितो-ऽपरिणतचारित्रः शैक्षस्तनिमित्तै संयोगोऽपि कल्पते इति, प्रमाणद्वारे सामान्येन सर्वसुदरं पभिर्भागैविभज्यते तत्र भागत्रयमशनतकशाकादिना पूर्यते द्वौ भागौ पानीयेन षष्ठं तु भागं वायुमविचारणार्थमूनं कुर्यात, विशेषेण तु कालापेक्षया अतिशीतकाले द्रवस्यैको भागः १ चत्वारो भक्तस्य ४ एकोऽनिलाय १, मध्यमे तु शीतकाले द्वौ भागौ पानीयस्य २ त्रयस्तु भागा भक्तस्य ३ एकोऽनिलाय १, अत्युष्णकाले त्रयो भागा द्रवस्य द्वौ भक्तस्य एकोऽनिलाय, मध्यमोष्णकाले द्वौ भागौ पानीयस्य त्रयो भक्तस्य एकोऽनिलायेति । गाथाछन्दः॥ ५७ ॥ पूर्वगाथायां 'बायालीसेसणाकुसले'त्ति अनेन मुनिनिर्दोषमाहारं भुञ्जीतेति परमार्थत उक्तम्, अथ तमपि न रूपाद्यर्थमश्नीयादिति दर्शयन्नाहतं पि न रूवरसत्थं, न य वण्णत्थं न चेव दप्पत्थं । संजमभरवहणत्थं, अक्खोवंगंव वहणत्थं ॥५॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy