SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ गच्छा ॥६॥ यदि सागारिकाभावे ददाति तर्हि कल्पते ११, छिन्नपादो ययुपविष्टः सन् सागारिकासम्पाते प्रयच्छति ततस्ततोऽपि कल्पते १२, नपुंसको यदि लिङ्गाधनासेवकस्तहि ततः कल्पते १३, आपन्नसत्वापि यदि नवममासगर्भा तदा स्थविरकल्पिकैः परिहार्या, तद्विषरीतायाः कराद् ग्राह्यम् १४, या बालवत्सा स्तन्यमात्रोपजीविशिशुका सा त्याज्या, यस्यास्तु बाल आहारेऽपि लगति तस्या हस्तात्कल्पते जिनकल्पिकास्तु मूलत एवापन्नसत्त्वां बालवत्सां च सर्वथा परिहरन्ति १५, भुनाना अनुच्छिष्टा सती यावदद्यापि न केवलं मुखे प्रक्षिपति तावत्तद्धस्तात् कल्पते १६, भृज्यमानाऽपि यत्सचित्तं गोधूमादिकडिल्लके क्षिप्त तत् भृष्ट्वोत्तारितं अन्यच्चाद्यापि हस्ते न गृहाति अत्रान्तरे यदि साधुरायातः सा चेत् ददाति तर्हि कल्पते १७, दलयन्ती सचित्तमुद्गादिना दल्यमानेन सह घर मुक्तवती अत्रान्तरे साध्वावागते सा यात्तिष्ठति अचेतनं वा भृष्टमुद्गादिकं दलयति तर्हि तद्धस्तारकल्पते १८, कण्डयन्त्याः कण्डनायोत्पाटितं मुशलं न च तस्मिन् मुशलके कापि काश्यां बीजं लग्नं स्यादत्रान्तरे साधावागते यदि साऽनपाये प्रदेशे मुशल स्थापयिखा भिक्षां ददाति तर्हि कल्पते १९, पिंपती यदि पेषणपरिसमाप्तौ पासुकं वा पिषती ददाति तदा कल्पते २०, असंसक्तं दध्यादिमन्थत्याः कल्पते २१, कर्त्तयन्त्यपि यदि सूत्रं तन्तुश्वेतताविधायिता शंखचूर्णेन हस्तौ न धवलयति धवलितौ वा शौचनाग्रहशीलतया न प्रक्षालयति तदा कल्पते २२, लोढयन्ती २३, विकीजयन्ती २४, पिंजयन्ती च कसं २५, यदि तदस्थिकान् न संघट्टयति देयद्रव्यखरंण्टितकरधावने जलं च न विराधयति तदा कल्पत इति, शेषेषु १५ षट्वायव्यग्रहस्तादिष्वपवादाभावादग्रहणमिति २। ग्रासैषणायां संयोजनादिपश्च दोषाः तत्र संयोजनाप्रमाणयोः किञ्चिदुच्यते विशिष्टस्वादनिमित्तं दुग्धदथ्योदनादीनां विशिष्टद्रव्याणां मीलनं संयोजना । सा च द्विधा ॥६ ॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy