SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ अथवा 'जायमजायाहारे' ति यात्रामात्राहारः यात्रायै मात्रयाहारो यस्यासौ यात्रामात्राहारः आर्षत्वाचेत्थं सिद्धिः, तत्र यात्रा-संयमस्वाध्यायादिरूपा मात्रा तु-तदर्थमेव पुरुषस्वीपण्डानां क्रमेण द्वात्रिंशदष्टाविंशतिचतुर्विंशतिकवलप्रमाणाहारमध्यादेकद्विव्यादिकवलेनाहारग्रहणमिति । कवलप्रमाणं कुक्कुटचण्डकमानेन तथाहि-इह कुक्कुटी द्विधा, द्रव्यभावभेदेन, द्रव्यकुक्कुटी द्विधा, उदरकुक्कुटी ? गलकुक्कुटी (च) २, तत्र साधोरुदरं यावन्मात्रेणाहारेण न न्यूनं नाप्यधिकं स आहारः उदरकुक्कुटी, उदरपूरक आहारः कुक्कुटीव उदरकुक्कुटीति मध्यमपदलोपिसमासाश्रयणात् तस्य द्वात्रिंशत्तमो भागोऽण्डकं तत्पमाणं कवलस्य १, गल कुक्कुटीव गलकुक्कुटी तस्या अन्तरालमण्डकं अयं भावः अविकृताऽऽस्यस्य पुंसो गलान्तराले यः कवलोऽविलग्नः प्रविशति, तत्पमाण कवलस्य २ अथवा शरीरमेव कुक्कुटी तन्मुखमण्डकं तत्राक्षिकपोलभ्रुवां विकृतिमनापाद्य यः कवलो मुखे प्रविशति, तत्पमाणं कवलस्य अथवा कुक्कुटी पक्षिणी तस्या अण्डकं तत्पमाणं कवलस्य १। भावकुक्कुटी तु येनाहारेण भुक्तेन न न्यून नाप्यत्याघ्रातं स्यादुदरं धृतिं च समुद्हति ज्ञानदर्शनचारित्राणां च वृद्धिरुपजायते, तावत्प्रमाण आहारो भावकुक्कुटी, अत्र भावस्य माधान्यविवक्षणादेष प्रान्द्रव्यकुक्कुटयप्युक्तः इह भावकुक्कुटी उक्तः, तस्य द्वात्रिंशत्तमो भागोऽण्डकं तत्प्रमाणं कवलस्येति २ पिण्डनियुक्तिवृत्तिप्रान्ते तथा भगवती सप्तमशतप्रथमोद्देशकवृत्तावपि यथा 'कुक्कुडिअंडगपमाणमेत्ताण' ति कुक्कुटपण्डकस्य यत्प्रमाणं मानं तन्मात्रापरिमाणं मानं येषां ते तथा अथवा कुटीव-कुटीरकमिव जीवस्याश्रयत्वात् कुटी-शरीरं कुत्सिता अशुचिप्रायत्वात् कुटी कुक्कुटी तस्या अण्डकमिवाण्डकमुदरपूरकत्वादाहारः कुक्कुटयण्डकं तस्य प्रमाणतो मात्रा द्वात्रिंशदूपा येषां ते कुक्कुटचण्डकपमाणमात्राः अतस्तेषां अयमभिप्रायो-यावान् यस्य पुरुषस्याहारस्तस्य द्वात्रिंशत्तमो भागस्तत्पुरुषा
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy