SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ गच्छा चार ॥५९॥ ANTONY तश्वासौ प्राणशेषश्च कण्ठगतप्राणशेषः, तस्मिन्नपि मरणान्तकष्ठेऽपीत्यर्थः, ते बहुतरनिर्जराभाजो दोषाभाववन्तश्च भवन्तीति शेषः । चत्वार्यपि गाथाछन्दांसि ॥ ५२ ॥ ५३ ॥ ५४ ॥ ५५ ॥ अथ शिष्य स्वरूपप्रतिपादनद्वारेण गच्छस्वरूपमेव प्रतिपादयन्नाह - गुरुणा कज्जमकज्जे खरकक्कसदुट्ठनिहुरगिराए । भणिए तहत्ति सीसा भणति तं गोयमा गच्छं ॥ ५६ ॥ व्याख्या—गुरुणा-आचार्येण कार्यं च अकार्यं च कार्याकार्य तस्मिन् मकारोऽलाक्षणिकः, खर कर्कशदुष्टनिष्ठुरगिराअत्यर्थनिष्ठुरतरवाण्या भणिते प्रवृत्तिनिवृत्त्यर्थे कथिते सति ' तह त्ति ' तथेति यद्यथा यूयं वदथ तत्तथैवेति यत्र गच्छे शिष्याःविनेयाः भणन्ति - प्रतिपद्यन्ते इत्यर्थः तं गच्छं हे गौतम! घण्टालालान्यायेन भणन्तीति क्रियाया अत्रापि संबन्धाद् भणन्तिप्रतिपादयन्ति तीर्थकर गणधरादय इति शेषः । गाथाछन्दः ॥ ५६ ॥ अथ गच्छस्वरूपाधिकारादेवेदमाहदूरुज्झियपत्ताइसुममत्तए निप्पिहे सरीरे वि । जायमजायाहारे बायालीसेसणाकुले ॥ ५७ ॥ व्याख्या – ' दूरुज्झियपत्ताइसुममत्तए ' ति दूरत उज्झितं त्यक्तं पात्रादिषु ममत्वं येन स दूरोज्झितपात्रादिममत्वः सूत्रे त्वार्षत्वाद्विभक्तेरलोपः अथवा दूरत उज्झितं पात्रादिषु सु-अतिशयेन ममत्वं येन स दूरोज्झितपात्रादिसुममत्वः तथा निःस्पृहः-ईहारहितः मेघकुमारादिवत् क शरीरेऽपि स्ववपुष्यपि किं पुनरन्यत्र तथा 'जायमजायाहारो' त्ति मकारस्यालाक्षणिकत्वात्, जातः - संपन्नोऽजातश्च - असम्पन्न आहारो यस्यासौ जाताजाताहारः कदाचित्कृताहारः कदाचिदकृताहार इत्यर्थः । तत्र शुद्धलब्धे जाताहारः, अलब्धेऽशुद्धे वा लब्धेऽजाताहारः, उक्तञ्च - " अलब्धे तपसो वृद्धिर्लब्धे देहस्य धारणे " वृत्तिः ॥५९॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy