SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ द्वाचं काय चान्यत्राकुर्वन्नेकाथिकानि वा विशेषणान्येतानि प्रस्तुतोपयोगकर्षपतिपादनपराणि, अमूनि च लिङ्गपरिणामतः श्रमणी श्राविकयोरपि योज्यानि, तस्मात्तचित्तादिविशेषणविशिष्टाः श्रमणादय उभयकालं-उभयसन्ध्यं यदावश्यकं कुर्वन्ति तल्लोकोत्तरिक भावमाश्रित्यावश्यक, भावश्चासावावश्यक चेति वा भावावश्यक, अत्राऽवश्यकरणादावश्यकत्वं, तदुपयोगपरिणामस्य सद्भावाद् भावत्वं, मुखवस्त्रिकाप्रत्युपेक्षणरजोहरणब्यापारादिक्रियालक्षणदेशस्यानागमत्वानोआगमत्वं भावनीय, ‘से तं' इत्यादि निगमनं, तदेवं स्वरूपत उक्तं भावावश्यकमित्यलं प्रसङ्गेन ! । अथ प्रकृतं तत्र संयमः सप्तदशभेदो यथा-"पंचासववेरमणं, पंचिंदियनिग्गहो कसायजओ । तियदंडविरमणाओ, सतरसहा संजमो होइ ॥१॥” तस्मिन्नाताः-उद्यतास्तथा खरपरुषकर्कशया अनिष्टदुष्टया निष्ठुरगिरा निर्भत्सननिर्धटनादिभिश्च मोऽलाक्षणिकः, ये मुनयो न प्रद्विपन्ति-न प्रद्वेष यान्ति तत्र खरा-शूचीतुल्या, परुषा-बाणतुल्या, कर्कशा-कुन्ततुल्या, अनिष्टा-काकशब्दवत् , दुष्टा-सकोपव्याघ्रशब्दवत्, निष्ठुरा-प्रस्तरागमनवत् , एकाथिकान्येव वा प्रायो गिर्विशेषणान्येतानि प्रस्तुतनिष्ठुरत्वार्थप्रकर्षप्रतिपादनपराणि, अथवाऽन्योप्यों यथा सम्प्रदायमवगन्तव्यःनिर्भर्त्सनं-अङ्गाल्यादिना तर्जनं, निटिनं-वसतिगणादिभ्यो निष्काशनं, आदिशब्दादन्येऽपीदृशाः प्रकारा ग्राह्याः, तथा ये च मुनयो नाकीर्तिजनकाः चशब्दान्नावर्णजनकाः नाशब्दजनकाः नाश्लाघाजनकाः, तत्र सर्वदिग्व्याप्यसाधुवादोऽकीर्तिः, एकदिग्व्याप्यसाधुवादोऽवर्णः, अर्द्धदिग्व्याप्यसाधुवादोऽशब्दः, तत्स्थान एवासाधुवादोऽश्लाघेति, तथा नायशोजनकास्तत्रायशो-निन्दनीयतादि, तथा नाकार्यकारिणः-वासदनुष्ठानकर्तारः, तथा न प्रवचनोड्डाहकरा:-नैव प्रवचनमालिन्यकरा आवश्यकोक्तकाष्टसाधुवत् , कण्ठगतप्राणशेषेऽपि कण्ठे गतः कण्ठगतः कण्ठग
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy