________________
गच्छा चार
॥५८॥
जे इमे चरगचीरियजावपासंडत्या इज्जंजलिहोमजपोन्दुरक्कणमोकारमाइयाई भावावस्सयाई करेन्ति, से तं कुप्पावयणियं भावावस्सयं ।" यजनमिज्या-पूजा गायत्र्यादिपाठपूर्वकं विप्राणां सन्ध्यार्चनमित्यर्थः, 'उंदुरक' देवतादिपुरतो वृषभगजितादिकरणमित्यर्थः, नमस्कारो-नमो भगवते दिवसनाथायेत्यादिकः२।" से किं तं लोउत्तरियं भावावस्सय १२ जण्णं सम गो वा समणी वा सावओ वा साविया वा तचित्ते तम्मणे तल्लेसे तदज्झवसिए तत्तित्वज्झवसाणे तदट्ठोवउत्ते तदप्पियकरणे तब्भावणाभाविए अण्णत्य कत्यइ मणं अकुबमाणे उवउत्ते एगमणे अविमणे जिणवयणधम्मरागरत्तमणे उभओ कालं आवस्सयं करेन्ति, से तं लोगुत्तरियं भावावस्सयं । से तं नोआगमओ भावावस्सयं । से तं भावावस्सयं । " 'समणो' त्ति श्राम्यतीति श्रमणः-साधुः१, श्रमणी-साध्वी २, शृणोति साधुसमीपे जिनप्रणीतां सामाचारीमिति श्रावक:श्रमणोपासकः ३, श्राविका-श्रमणोपासिका, वा शब्दाः समुच्चयार्थाः, तस्मिन्नेवावश्यके चित्तं सामान्योपयोगरूपं यस्येति स तच्चित्तः, तस्मिन्नेव मनोविशेषोपयोगरूपं यस्य स तन्मनाः, तत्रैव लेश्या शुभपरिणामरूपा यस्येति स तल्लेश्यः, तस्मिनेवावश्यके अध्यवसितं क्रियासम्पादनविषयमस्येति तदध्यवसितः, तत्तीव्राध्यवसानस्तस्मिन्नेवावश्यके तीव्र प्रारम्भकालादारभ्य प्रतिक्षणं प्रकर्षयायिप्रयत्नविशेषलक्षणं अध्यवसानं यस्य स तथा, तदर्थोपयुक्तस्तस्यावश्यकस्यार्थस्तदर्थस्तस्मिन्नुपयुक्तस्तदर्थोपयुक्तः, तथा तदर्पितकरणः करणानि-तत्साधकतमानि देहरजोहरणमुखवत्रिकादीनि तस्मिन्नावश्यके यथोचितव्यापारनियोगेनार्पितानि-नियुक्तानि येन स तथा सम्यग् यथास्थानन्यस्तोपकरण इत्यर्थः, तद्भावनाभावितस्तस्यावश्यकस्य भावना तदनुष्ठानरूपा तया भावितः, तदेवं यथोक्तप्रकारेण प्रस्तुतव्यतिरेकतोऽन्यत्र कुत्रचिन्मनोऽकुर्वन्नुपलक्षणत्वा
॥५८॥