SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ पश्चाद्राह्मणत्वभावात् , सिवः-व्यन्तरविशेषः, आर्या-प्रशान्तरूपा, दुर्गा-सैव महिषारूढा, तत्कुट्टनपरा कोट्टक्रिया, अत्रोपचारादिन्द्रादिशब्देन तदायतनमप्युच्यते, उ० छगणादिना सं० दण्डपुञ्छनादिना आवर्षणं गन्धोदकादिना शेष स्पष्टम् २ । " से किं ते लोगुत्तरियं दवावस्सयं ? २ जे इमे समणगुणमुक्कजोगी छक्कायणिरणुकंपा हया इव उद्दामा गया इव निरंकुसा घट्टा मट्ठा तुप्पोट्ठा पंडुरपडपाउरणा जिणाणं अणाणाए सच्छंद विहरिऊण उभओ कालमावस्सगस्स उवटुंति, से तं लोगुत्तरिय दवावस्सय । से तं जाणगसरीरभवियसरीरवइरित्तं दवावस्मयं । से तं नोआगमओ दवावस्सयं । से तं दवावस्सयं ।" गजा इव-दुष्टद्विरदा इव निरंकुशा-गुर्वाज्ञाव्यतिक्रमचारिण इत्यर्थः, 'घट्ट' ति येषां जड़े श्लक्ष्णीकरणार्थ फेनादिना घृष्टे भवतस्तेऽवयवावयविनोरभेदोपचारात् घृष्टाः, तथा 'मट्ट' ति तैलोदकादिना येषां केशाः शरीर वा मृष्टते तथैव मृष्टाः, 'तुप्पोट्ट ' ति तुमाः-म्रक्षिता मदनेन वा वेष्टिताः शीतरक्षादिनिमित्तमोष्ठा येषां ते तुमोष्ठाः, तथा मलपरीपहसहिष्णुतादूरीकृतत्वात् पाण्डुरो-धौतः पट:-प्रावरणं येषां ते तथा, उभयकालं प्रतिक्रमणायोपतिष्ठन्ते ३। " से किं तं भावावस्सय ? २ दुविहं पं० तं. आगमतो य नोआगमओ य । से किं तं आगमओ भावावस्सय १२ जाणए उवउत्ते, से तं आगमओ भावावस्सयं ।" 'जाणए उवउत्ते' त्ति ज्ञायक उपयुक्तः आगमतो भावावश्यक इदमुक्तं भवति-आवश्यकपदार्थज्ञस्तज्जनितसंवेगविशुदयमानपरिणामस्तत्रैवोपयुक्तः साध्वादिरागमतो भावावश्यकम् । “से किं तं नोआगमओ भावावस्सयं ? २ तिविहं पं० त० लोइयं १ कुप्पावयणियं २ लोउत्तरियं ३ । से किं तं लोइयं भावावस्सयं ? २ पुवण्हे भारई अवरहे रामायणं, से तं लोइयं भावावस्सयं से कि तं कुण्पावयणियं भावावस्सयं ? २
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy