________________
गच्छा
चार
॥६
॥
पेक्षया कवल इदमेव कवलमानमाश्रित्य प्रसिद्धकवलचतुःषष्ठयादिमानाहारस्यापि पुरुषस्य द्वात्रिंशता कवले प्रमाणप्राप्ततोपपन्ना स्यात् नहि स्वभोजनस्याई भुक्तवतः प्रमाणप्राप्तत्वमुपपद्यते, प्रथमव्याख्यानं तु प्रायिकपक्षापेक्षयाऽवगन्तव्यमिति । अथवा 'जायमजायाहारे' ति मकारस्यालाक्षणिकत्वात् जाताजाताधारः आवश्यकपारिष्ठापनिकानिर्युक्त्युक्तजाताजातारव्यपारिष्ठापनिकाविधिज्ञ इत्यर्थः। तत्र जाताजातस्वरूपं यथा “आहारम्मि उजा सा, सा दुविहा होइ आणुपुब्बीए । जाया चेव सुविहिआ, नायव्वा तह अजाया य॥१॥ आहाकम्मे अ तहा, लोहविसे आभिओगिए गहिए । एएण होइ जाया, वोच्छं से विहीइ वोसिरणं ॥२॥" आधाकर्मणि च तथा लोभाद् गृहीते विपकृते गृहीते मक्षिकादिविपच्या ज्ञाते आभियोगिके वशीकरणादिमत्राभिसंस्कृते चेतोऽन्यथात्वादिलिङ्गतो ज्ञाते सति एतेनाधाकर्मादिदोषेण जाता स्यात् 'से' तस्या विधिना पुत्सर्जन वक्ष्ये २। 'एगंतमणावाए, अच्चित्ते थंडिले गुरुबइठे । छारेण अक्कमित्ता, तिढाणं सावणं कुज्जा ॥३॥' त्रीन वारान् श्रावणं कुर्यात् अमुकदोषादिदं त्यज्यते इति त्रिरुच्चरेत् ३। 'आयरिए अगिलाणे, पाहुणए दुल्लहे सहसलाभे । एसा उ खलु अजाया, वोच्छं से विहीइ वोसिरणं ॥४॥' आचार्याद्यर्थे तथा दुर्लभे विशिष्टे द्रव्ये सति सहसा च तल्लाभे जाते सति इत्यादिहेतोरधिकग्रहणं स्यात् , एषाऽजातापारिष्ठापनिका ४। 'एगंतमणावाए, अच्चित्ते थंडिले गुरुवइहे । आलोए तिण्णि पुंजा, तिहाणं सावणं कुजा ॥५॥' आलोके-प्रकाशे शुद्धाहारस्य त्रीन् पुञ्जान् कुर्यात् , आधाकर्मादिमूलगुणदुष्टे एक उत्तरगुणदुष्टे तु द्वौ इति विशेषः, पूर्ववत्रिः श्रावणं च कुर्यात् , एवमुपकरणविषयेऽपि जाताजाते पारिष्ठापनिके ज्ञेये इति । तथा द्विचत्वारिंशदेषणाकुशल:-द्विचत्वारिंशदेषणादोषवर्जनचतुर उपलक्षणत्वात् पञ्चग्रासपणादोषवर्जनचतुरश्चेत्यर्थः । एवंविधो गच्छवासी मुनिः स्यादिति शेषः, तत्र एपणा
॥६
॥