________________
गच्छा चार
॥५६॥
शास्त्रे वाचनया प्रच्छनया परावर्तनया धर्मकथया वर्तमानोऽपि अनुपयुक्तत्वादागमतो द्रव्यावश्यक 'नो अणु' अनुप्रेक्षयाग्रन्थार्थानुचिन्तनरूपया तत्र वर्तमानो न द्रव्यावश्यक अनुप्रेक्षाया उपयोगमन्तरेणाभाशत्, 'अवत्थु' ति न सम्भवति । “से कितनोआगमओ दहावस्सयं ? नोआगमओ दवावस्सयं तिविहं पं० ते जाणगसरीरदवावस्सयं १ भवियसरीरदवावस्सयं २ जाणगसरीरभवियसरीरवइरित्तं दवावस्सयंसे किं तं जाणगसरीरदद्यावस्सयं? जाणगशरीरदवावस्सयं आवस्सए त्ति पयस्थाहिगारजाणगस्स जं सरीरयं ववगयचुयचावियचत्तदेई जीवविप्पजह सिज्जागय वा संथारगयं वा निसीहियागयं वा सिद्धिसिलायलगयं वा पासित्ताण कोइ वएन्जा-अहो णं इमेणं सरीरसमुस्सएणं निणोवइटेणं भावेणं आवस्सए त्ति पयं आयवियं पन्नवियं परूवियं दंसियं निदंसियं उवदंसियं, जहा को दिढतो? अयं महुकुंभे आसि अयं घयकुंभे आसि, से तं जाणगसरीरदबावरसय " आवश्यकशास्त्रार्थाधिकारज्ञशरीरं द्रव्यावश्यकं भवति, व्यपगतच्युतच्यावितत्यक्तदेहं, व्यपगतं-अचैतन्यलक्षणं पर्यायान्तरं प्राप्त, च्युतं-उच्छासनिःश्वासपरिभ्रष्टं, च्यावितं-बलीयसा आयुःक्षयेण परिभ्रंशितं, त्यक्तो देह:आहारपरिणतिजनितोपचयो येन तत् त्यक्तदेहं, 'जीववि०' जीवरहितं, शय्या-महती सर्वाङ्गप्रमाणा तां गतं शय्यागतं, संस्तारो-लघुकोऽर्द्धतृतीयहस्तमानस्तं गतं, नैपेधिकी-शबपरिस्थापनभूमिस्तत्र गतं, यत्र साधवस्तपःपरिकम्मितशरीराः स्वयमेव गत्वा भक्तपरिज्ञाद्यनशन प्रतिपन्नपूर्वाः प्रतिपद्यन्ते प्रतिपत्स्यन्ते च तत्सिद्धिशिलातलमुच्यते तत्र गतं, अहोशब्दो दैन्यविस्मयामन्त्रणेषु वर्त्तते स चेह त्रिष्वपि घटते, तथा हि-अनित्यं शरीरमिति दैन्ये, आवश्यकं ज्ञातमिति विस्मये, अन्य पाश्चस्थितमामन्त्रयमाणस्यामन्त्रगे, अनेन शरीरमेव पुद्गलसङ्घातत्वात् समुच्छ पस्तेन जिनोपदिष्टेन-तीर्थकराभिमतेन भावेन-कर्मनि
॥५६॥