________________
मेव आगमओ ववहारस्स वि २ । संगहस्स णं एगो वा अणेगो वा अणुव उत्तो वा अणुवउत्ता वा आगमओ दहावस्सय वा दहावस्सयाणि वा से एगे दहावस्सए ३ । उज्जुसुयस्स एगो अणुवउत्तो आगमओ एग दहावस्सयं पुहत्तं नेच्छइ ४ । तिहं सद्दनयाणं जाणए अणुवउत्ते अवत्थु, कम्हा ? जइ जाणए अणुवउत्ते ण भवइ जइ अणुवउत्ते जाणए ण भवइ, तम्हा नस्थि आगमओ दहावस्सयं, से तं आगमओ दद्दावस्सयं ७।" मूत्रादित आरभ्य पठनक्रियया यदन्तं नीतं तत् शिक्षितं, तदेवाविस्मरणतश्चेतसि स्थितत्वात स्थितं, परावर्तनं कुर्वतः परेण वा कचित्पृष्टस्य यच्छीघ्रमागच्छति तज्जितं, विज्ञातश्लोकपदवर्णादिसख्यं मितं, परिसमन्तात् सर्वप्रकारेजितं परिजितं-परावर्ननं कुर्वतो यत् क्रमेणोत्क्रमेण वा समागच्छति, नामअभिधानं तेन समं नामसमं यथा स्वनाम कस्यचिच्छिक्षितं स्थितं जितं मितं परिजितं भवति तथैतदपीत्यर्थः, यथा गुरुणा अभिहिता घोषास्तथा शिष्योऽपि यत्र शिक्षते तद् घोषसमं एकद्व्यादिभिरक्षरीन हीनाक्षरं न तथा अहीनाक्षरं, एकादिभिरक्षरैरधिकमत्यक्षरं न तथा अनत्यक्षरं, विपर्यस्तरत्नमालागतरत्नानीव व्याविद्धानि-विपर्यस्तानि अक्षराणि यत्र तद्व्याविद्धाक्षरं न तथाऽब्याविद्धाक्षरं, उपलशकलाद्याकुलभूभागे लालमिव स्खलति यत् तत्स्खलितं न तथा अरखलितं, परावर्तमानस्य यत्र पदादिविच्छेदो न प्रतीयते तन्मिलितं न तथा अमिलितं, अस्थानविरतिकं व्यत्यानेडितं न तथाऽव्यत्याप्रेडितं, मूत्रतो बिन्दुमात्रादिभिरन्यूनमर्थतस्त्वध्याहाराकाङ्क्षादिरहितं प्रतिपूर्ण, उदात्तादिघोषैरविकलं प्रतिपूर्णघोषं, कण्ठौष्ठविप्रमुक्तं बालमूकभाषितवद्यदव्यक्तं न भवति, गुरुपदत्तया वाचनया उपगतं प्राप्तं गुरुवाचनोपगतं न तु कर्णाघाटकेन शिक्षितं न वा पुस्तकात्स्वयमेवाधीतमिति । 'से णं' ति यस्यावश्यकशास्त्रं शिक्षितादिगुणोपेतं भवति स जन्तुस्तत्रावश्यक