________________
गच्छा चार
रागदासेण विअणु-सएण तं गायम! न गच्छं ॥ ५० ॥ व्याख्या-प्रज्वलन्ति अग्निवत् यत्र गच्छे 'धगधगधगस्स' ति अनुकरणशब्दोऽयं धगद्धगिति-धगधगायमानं यथा स्यात्तथेत्यर्थः, प्राकृतत्वाच्चैवं प्रयोगः, गुरुणा-आचार्यणापिशब्दादुपाध्यायादिनाऽपि ' चोइए 'त्ति भवादृशामयुक्तमेतदित्यादिना प्रकारेण नोदिते सति के शिष्या:-अन्तेवासिनः केन प्रज्वलन्त रागद्वेषेण अत्र समाहारद्वन्द्वादेकवचनं, तथाऽनुशयेनापि-हा कथं निरन्तरातिदुःसहदुःखसन्तापव्यापव्याकुलीकृतान्तःकरणाः प्रवज्योररीकृता मयेत्यादि पश्चात्तापकरणेन चेत्यर्थः, अपिशब्दः चशब्दार्थ, यद्वा रागद्वेषेण किम्भूतेन ? 'विअणुसएण' ति विगतोऽनुशयः-पश्चात्तापो यत्र तद् व्यनुशयं तेन पश्चातापरहितेनेत्यर्थः, हे गौतम ! स गच्छो न भवतीति । गाथाछन्दः ॥५०॥ अथ गच्छे वसतां बही निर्जरा स्यादित्याहगच्छो महाणभावो, तत्थ वसंताण निजरा विउला।सारणवारणचोअण-माईहि न दोसपडिवत्ती ५१
व्याख्या-गच्छ:-मुविहितमुनिवृन्दरूपः महाननुभावः-प्रभावो यस्यासौ महानुभावः, 'तत्थ' चि तत्र गच्छे वसतां-वासं कुर्वतां निर्जरा-कर्मक्षयरूपा भवतीति शेषः किम्भूता विपुला-महती कुत इत्याह-यतस्तत्र वसतां स्मारणावारणाचोदना| दिभिः मोऽलाक्षणिकः न दोषप्रतिपत्तिः-न दोषावाप्तिर्भवति । तत्र विस्मृते क्वचित्कर्त्तव्ये भवतेदं न कृतमिति स्मारणा, अकर्तव्यानां निषेधी-वारणा, संयमयोगेषु स्खलितस्यायुक्तमेतद्भवादृशां विधातुमित्यादिस्वरमधुरवचनैः प्रेरणं चोदना,
आदिशब्दात्तथैव पुनः पुनः प्रेरणरूपा प्रतिचोदनेति । गाथाछन्दः॥५१॥ पूर्व गच्छे वसतां बह्वी निर्जरा दोषाप्रतिपत्ति| थोक्ता । अथ सा किंविधानां स्यादिति गाथाचतुष्टयेनाह- .
॥५३॥