________________
गच्छा
चार॥४७॥
珠钻珠班飞飞飞飞渐飞子
दित्यर्थः । तथा चोक्तं महानिशीथषष्ठाध्ययने - " वासलक्खंपि सूलीए, संभिन्नो अच्छियामुहो । अगीयत्थेण समं, एकं खणद्धं पि न संवसे ॥ १ ॥ " ननु स्वगुरोः पार्श्वस्थादित्वमाप्तस्य किं क्रियते उच्यते आगमोक्तविधिना त्यागो विधीयते यदुक्तमुपदेशमालायां ३७६ गाथाहेयोपादेयवृत्तौ - " गीयत्थं संविग्गं, आयरियं सुयइ वलइ गच्छस्स । गुरुणो य अणापुच्छा, जं किंचि वि देइ गिoes वा ॥ १ ॥ " गीतार्थ - अधितागमं संविग्नं मोक्षाभिलाषिणमाचार्य - निजगुरुं मुञ्चति - निष्प्रयोजनं परित्यज्य गच्छतीत्यर्थः । इह च गीतार्थसंविग्नग्रहणमगीतार्थासंविनं पुनरागमप्रतिपादितक्रमेणात्मानं मोचयित्वा मुञ्चतोऽपि न दोष इति ज्ञापनार्थमिति । तथा स्थानाङ्गतृतीयस्थानकेऽप्युक्तं, यथा-" एवं विजहणा " - अस्य वृत्तिः एवमिति आचार्यत्वादिभेदेन त्रिधैव विहानं - परित्यागस्तच्चाचार्यादेः स्वकीयस्य प्रमाददोषमाश्रित्य वैयावृत्त्यक्षपणार्थमाचार्यान्तरोपसम्पच्या भवतीत्यादि, यतो मोक्षमार्गस्य - निर्वाणपथस्येमे पूर्वोक्ता 'विग्ध' त्ति विघ्नाः कारणे कार्योपचारात् विघ्नकरा इत्यर्थः । दृष्टान्तमाह-यथा पथि मार्गे ' तेणगे 'त्ति चौरा विघ्नकरा भवन्तीति । विषमाक्षरेति गाथाछन्दः ॥ ४८ ॥
पज्जलियं हुयवहं दहुं, निस्संको तत्थ पविसिउं । अत्ताणं निद्दहिजाहि, नो कुसीलस्स अल्लिए ॥४९॥ व्याख्या– प्रज्वलितं हुतवहं वैश्वानरं दुहुमिति दृष्ट्वा - विलोक्य निःशङ्कः त्यक्तशङ्कस्तत्र हुतवहे प्रविश्य-प्रवेशं कृत्वा आत्मानं निर्दहेत्-ज्वालयेदित्यर्थः । परं नो - नैव ' कुसीलस्स ' त्ति ' क्वचिद् द्वितीयादेः ' ( ८-३-१३४) इति प्राकृतसूत्रेण द्वितीयास्थाने षष्ठीविधानात् कुशीलं ' अल्लिए ' ति आश्रयेदनन्त संसारहेतुत्वात् । उक्तं च श्रीमहानिशीथ द्वितीयाध्ययनप्रान्ते - " जीवे संगमाइणे, घोरं वीरं तवं चरे । अचयंतो इमे पंच, कुज्जा सवं निरत्ययं ॥ १ ॥ पासत्थोसन्नहा छंदे, कुसीले
PRESE
दृति:
॥४७॥