________________
CAL
CIRC%
तथा बालो जन्मतोऽष्टवर्षाभ्यन्तरवर्ती तस्मिन् दीयमाने न कल्पते, मात्राद्यसमक्षं यदाऽऽदत्ते तदा एते लुण्टाका इव दृश्यन्ते साधवः, सवृत्ता न इति जनापवादः, मात्रादीनां च वतिनामुपरि विद्वेषः स्यादतो न ग्राह्यं, यदि मात्रादिभिः कार्यवशादन्यत्र गच्छद्धि
लिकस्य कथितं भवेदेतत् त्वया गृहागतानां साधूनां देयमिति ततो गृह्यतेऽपीति कलहादेरभावादिति । तथा च मत्तः पीतमदिरादि| भिस्स च भिक्षा ददन् मत्ततया साधोरालिङ्गनं ददाति, भाजनं वा भिनत्ति कश्चिद्ददन् आसवं वमति, वमन् साधुपात्रं खरण्टयति, | ततो लोकगर्दा 'धिगमी अशुचयो ये मत्तादपि गृह्णन्ति, कोऽपि मत्तो जल्पति वा रे मुण्ड ! किमत्रायातस्त्वमिति ब्रुवन् घातमपि लं करोति, ततो न कल्पते, यदि तस्य पार्श्वे कश्चिद्भवति तदपरोद्धा तदा कल्पतेऽपीति । तथा उन्मत्तो दृप्तो ग्रहग्रहीतो वा तस्मिन्नप्येते | एव वमनवर्जा दोषा भावनीयाः, तथा मत्तोऽपि यदि भद्रकोऽलक्ष्यमदश्च भवति तथा उन्मत्तोऽपि यदि शुचिर्भद्रकश्च भवति तदा कल्पत इति । तथा च्छिन्नकरो मूत्राद्युत्सर्गादौ जलशौचाभावात् अशुचिरेव तेन च दीयमानं ग्रहणे जनगर्दा इत्यादयो दोषाः, परिशाटिहस्तात्पतने षड्जीवघातः पात्रस्फोटनादयो भाव्याः। च्छिन्नचरणेऽप्येत एव भाव्याः केवलं पादाभावात् तस्य भिक्षादानाय चलतःप्रायो नियमतः पतनं भवेत् , तथा सति भूम्याश्रितपिपीलिकाप्रभृति प्राणीविनाशः तथा च्छिन्नकरोऽपि यदि सागारिकाऽभावे ददाति तदा यतनया गृह्यतेऽपीति । च्छिन्नचरणोऽपि यदि उपविष्टो ददाति असागारिकं च स्थानं भवेत् तदा गृह्यते । तथा गलत्कुटीपुरुषाद्गृह्यमाणेऽपि तदीयोच्छ्वासत्वक्संस्पर्श-अर्धपक्करुधिरस्वेदमललालादिभिः साधोः कुष्टसंक्रमो भवेत् , सोऽपि चेन्मण्डलप्रसूतिरूपकुष्टकीर्णकायः सन् सागारिकाभावे यदा ददाति तदा कल्पते न शेषकुष्टिनः सागारिके वा पश्यति । तत्र मण्डलानि वृत्ताकारदगुविशेषरूपाणि प्रसतिर्नखविदारणेऽपि चेतनायाः ससंवेदनं[असंवित्तिः] भवति । तथा करविषयकाष्ठमयबन्धनरूपेण हस्तांदुना पादविष
-KAK-44
AAAAAG