________________
184
प्रथम संवरद्वारे एषणा दोषाः
वृत्ति
द्वान विडूयलोहबन्धनरूपेण निगडेन च बद्धे दातरि भिक्षा प्रयच्छति दुःखं तस्य स्यात् , तथा मूत्राघुत्सादौ शौचाऽभावात् ततो भिक्षाग्रहणे प्रश्न व्या० लोकजुगुप्सा ततो न ग्राह्यं, यदा पादबद्धहीनस्ततश्च पीडामन्तरेण गन्तुं शक्तस्तदा ग्रहीतुं कल्पतेऽपीति, बद्धोऽपि यदोपविष्टः सन्
दत्ते सागारिको न पश्यति तदा ग्राह्यमपीति बन्धस्तु प्रतिषेध एव न भजना। तथा पादुकयोः काष्ठमयोपानहोरारूढस्य भिक्षादानाय
प्रचलतः कदाचिद् दुःस्थितत्वेन पतनं स्यात् अतो न ग्राह्य, अथ पादुकारूढोऽपि यद्यचलो भवति तदा कारणे कल्पते । तथा ॥३२॥ | कण्डयन्त्या उदूखले तंदुलादिकं छण्टयन्त्या न गृह्यते यतः सा उदूखलक्षिप्तशाल्यादि बीजसंघट्टादि करोति, तथा दानात् पूर्व पश्चाद्वा ।
जलेन हस्तधावनादि दोष वा विदध्यात् ततो न ग्राह्य, अत्रापि अपवादतः कण्डनायोत्पाटितं मुशलं न च तस्मिन् मुशले काञ्च्यां बीजलग्नमस्ति अत्राऽवसरे समायातः साधुस्ततो यदि सा पतनाद्यनर्थरहिते गृहकोणादौ मुशलं स्थापयित्वा ददाति तदा कल्पतेऽपीति । ५ तथा पिंपन्ती शिलायां तिलामलकादि प्रमृद्गन्ती यदा भिक्षादानायोत्तिष्ठति तदा पिष्यमाणतिलादिसत्काः काश्विनखिका सचित्ता अपि हस्तादौ लगिताः संभवन्ति ततो भिक्षादानाय हस्तादि प्रस्फोटने भिक्षा वा ददत्या भिक्षासंपर्कतस्तासां विराधना भवति पूर्वकर्मपश्चात्कर्मादयोऽपि अप्कायविराधना संभवति, अतो नैव (कल्पते), एषाऽपि पेषणसमाप्तौ पाषुकं वा पिंपती यदि ददाति तदा कल्पते । तथा भय॑माना चुल्लथा कडिल्लकादौ चनकादीन् स्फेटयती तस्यां भिक्षां ददत्यां वेलालगनेन कडिल्लकक्षिप्तगोधूमचणका| दीनां दाहे सति प्रद्वेषादयो दोषा स्युः । अत्रापि यत् सचित्तं गोधूमादि कडिल्लके क्षिप्तं तत् भ्रष्टोत्तारितमन्यच्च नाद्यापि करे गृहीत- | मस्मिन्नवसरे आयातः-साधुरागतः ततो यदि उत्थाय ददाति तदा कल्पते । तथा कुंतत्यां वस्त्रेण रूतपोणिका-सूत्ररूपां कुर्वन्त्यां 8 तथा लोठयन्त्यां-लोढत्यां कर्पासः कणकेन रूततया विदधत्यां तथा विक्षुवत्यां रूतं कराभ्यां पौनःपुन्येन विरलं कुर्वन्त्यां तथा
OREGARRAHARASHTRA
॥३२॥