________________
36436
'निक्खित्तेत्ति निक्षिप्तं सचित्तोपरि स्थापितं, पृथिव्यप्तेजोवायुवनस्पतित्रसत्वेन षोढा, पुनरेकैकं द्विधा अनन्तरं परम्परं च, अन| न्तरं अव्यवधानेन तत्र सचित्ते मृदादौ यत्पक्वान्नमण्डकादिकं आनन्तर्येण व्यवस्थापितं तदनन्तरनिक्षिप्तं, तदेव नवनीतादि पक्वान्नादि वा जलमध्यस्थितेषु नावादिषु स्थितं परम्परनिक्षिप्तं, तथा वह्नौ पर्पटादि यत् प्रक्षिप्यते एतदनन्तरनिक्षिप्तं यत्पुनरग्रे उपरि स्थापिते पिठरादौ क्षिप्तं तत्परम्परनिक्षिप्तं, तथा वातोत्पाटिता शालिपर्यटकादि अनन्तरनिक्षिप्तं यद्येनोत्पाटयते तत्तत्र निक्षिप्तमुच्यते इति विवक्षया परम्परनिक्षिप्तं तु पवनपूरितदृत्यादि उपरिस्थितमण्डकादि । तत्र वनस्पत्यनन्तरनिक्षिप्तं सचित्तत्रीहिकाफलादिषु अपूपामण्डका - दिन्यस्तं, परम्परानिक्षिप्तं तु हरितादीनामेवोपरिस्थितेषु पिठादिषु निक्षिप्ता अपूपादयः । तथा त्रसेऽनन्तरनिक्षिप्ते बलीवर्दादिपृष्टोपरिस्थितेषु पिठरादिषु अपूपमोदकादयो निक्षिप्ताः, परम्परनिक्षिप्तं तु बलीवर्दादिपृष्टनिवेशित कुतूपादिभाजनेषु निक्षिप्ता घृतमोदकादय इति । अत्र च पृथिव्यादिषु सर्वेष्वप्यनन्तरनिक्षिप्तं देयवस्तु यतीनामकल्पनीयमेव भवति सचित्त पृथ्वीकायाद्युपरि स्थितत्वेन संघट्टादिदोषसम्भवात् । परम्परनिक्षिप्तं पुनः सचित्तादिसंघट्टादिपरिहारेण यतनया ग्राह्यमपीति ।
अथ केवलं तेजस्काये परम्परनिक्षिप्तस्य ग्रहणमाश्रित्य विशेषं प्रतिपाद्यते, यथेक्षुरसः पाकस्थानेऽग्नेरुपरिस्थिते कटाहादौ यदि कटाहः सर्वतः पार्श्वषु मृत्तिकया अवलिप्तो भवति दीयमाने चेक्षुरसे यदि परिशाटो नोपजायते सोऽपि च कटाहो विशालमुखो भवति, सोऽपि चेक्षुरसोऽचिरक्षिप्तो भवति इति कृत्वा यदि नात्युष्णो भवति स यदा दीयते तदा कल्पते, इह यदि दीयमानस्येक्षुरसस्य कथमपि बिन्दुः बहिः पतति तर्हि सलेप एवाऽऽवर्त्तते । ननु चुल्लीमध्यस्थिततेजस्कायमध्ये पतति ततो मृत्तिकयावलिप्त इत्युक्तं, तथा विशा १ पिं० नि० पृ० १५०