________________
ज्ञान०वि० प्रश्न० व्या० वृत्ति
॥२९॥
क्षार्थं गतः तथैव शङ्कितचेताः प्रचुरां भिक्षामादाय स्ववसतिमागत्य भोजनावसरे दोलायमानं तं दृष्ट्वा अपरः साधुर्विज्ञातभिक्षादात्गृहव्यतिकरस्तदाशयं ज्ञात्वा भणति भोः साधो ! यत्र या भिक्षा प्राप्ता तस्य गृहे महत्प्रकरणं लाभनकं वा प्रचुरं कुतोऽप्यागतं तत् | श्रुत्वा विगतशङ्कस्तद्भुङ्क्ते इति द्वितीयभङ्गवर्त्ती, तथा कश्चित् साधुरिभ्यगृहात् प्रचुरां भिक्षां निशङ्कितो लात्वा वसतावागत्य अन्यान् साधून वा गुरोः पुरतः स्वभिक्षातुल्यां भिक्षां आलोचयतः श्रुत्वा संजातशङ्कितश्चिन्तयति, यथा यादृश्येव मया भिक्षा प्रचुरा लब्धा तादृशी अन्यैरपि साधुसंघाटकैर्लब्धा तन्मनसाधाकर्मादिदोषदुष्टं भुञ्जानस्तृतीयभङ्गभाक् ॥ १॥
मक्खियत्ति प्रक्षितं पृथिव्यादिना अवगुण्ठितं तद् द्विधा सचित्तम्रक्षितं अचित्तम्रक्षितं, तत्र सचित्तम्रक्षित त्रिविधं पृथव्यव्वनस्पतिकायप्रक्षित च तत्र शुष्केण-आर्द्रेण वा पृथ्वीकायेन देयं मात्रकं हस्तो वा यदि प्रक्षितो भवति तदा सच्चित्तपृथ्वी कायम्रक्षितम् । अकायम्रक्षिते चत्वारो भङ्गाः पुरः कर्म पश्चात्कर्म सस्निग्धं उदकार्द्र च तत्र दाता दानपूर्वं साध्वर्थं कर्म हस्तमात्रादेर्जलप्रक्षालनादि पुरः क्रियते, तत् पूर्वकर्म । यत् पुनर्भक्कादेर्दानात् पश्चात् क्रियते तत् पश्चात्कर्म । सस्निग्धमीपल्लक्ष्यमाणजलखरण्टितं हस्तादि, उदकाई स्पष्टोपलभ्यमान जलसंसर्ग, तथाभूत [पनस ] फलादीनां सद्यः कृतैः श्लक्ष्णखण्डैः खरण्टितं यत् हस्तादि तद्वनस्पतिकायम्रक्षितं, शेषैस्तु | तेजः समीरत्रस कायैर्ब्रक्षितं न भवति तेजस्कायादिसंसर्गेऽपि लोके प्रक्षितशब्दप्रवृत्यदर्शनात् । अचितम्रक्षितं द्विधा गर्हितमगर्हितं च, गर्हितं वसादिना लिप्तं इतरत् घृतादिना, तत्र सचित्तम्रक्षित न कल्प्यते, अचित्तम्रक्षितं तु लोकनिन्दादिना न ग्राह्यं घृतादिना श्रक्षितं तु कल्प्यते २
१ पिं० नि० पृ० १४९
प्रथम
संवरद्वारे
एषणा
दोषाः
॥२९॥