________________
योग इति । यतोऽसावभ्यहार्योऽनाहार्यश्च तदा द्विविधो भवेत्तत्र जलपानादिना अभ्यहार्यः, पादलेपादिनाऽन्यभ्यवहार्यः इति ||2|| विशेषः १४-१५ | मूलकम्मेयत्ति मूलकर्म-अतिगहनभववनस्य मूलं कारणं सावधक्रिया मूलकर्म, तत्र गर्भस्थंभन-गर्भाधान-गर्भपात-गर्भशात| उत्क्षिप्तयोनित्वकरणादिना उपाय॑ते पिण्डः स मूलकर्मपिण्डः, अयं च साधूनां न कल्पते सकारणनिष्कारणेऽपि प्रद्वेषप्रवचनमालिन्य
जीवविधाताधनेकदोषसंभवात् , तथाहि-गर्भस्तंभन-गर्भशातने च साधुकृते सति प्रद्वेषो भवति । ततः शरीस्याऽपि नाशः गर्भाधान-18 | वत्तथाऽयोनित्वकरणे यावजीवमैथुनप्रवृत्तिः गर्भाधानादिपुत्रोत्पत्तौ इष्टा भवति, क्षतयोनित्वकरणात् पुनर्भोगान्तरायादीनि स्युरिति |१६ उक्ताः षोडशाऽप्युत्पादना दोषाः। अथ एषणादोपानाऽऽह
संकिंय १ मक्खिय २ निक्खित्त ३ तत्र शङ्कितमाधाकर्मादिदोषसम्भावितं अत्र चतुभङ्गी--ग्रहणे शङ्कितो भोजनेऽपि शक्ति इति प्रथमः १ ग्रहणे शङ्कितो भोजने न द्वितीयः २ भोजने शङ्कितो न ग्रहणे तृतीयः ३ न ग्रहणेनाऽपि भोजने चतुर्थः ४ तत्रायेषु त्रिषु भङ्गेषु षोडशोद्गमदोषनवैषणारूपाणां पञ्चविंशतिदोषाणां मध्ये येन दोषेणाशङ्कितं भवति तं दोषमाप्नोति, किमुक्तं भवति यदाधाकर्मत्वेन शक्तिं गृह्णाति भुङ्क्ते वा तेन दोषेन सम्बध्यते चतुर्थभङ्गे तु वर्तमानः शुद्धो न केनाऽपि दोषेण सम्बध्यत इत्यर्थः। एतेषां चैवं संभवः, यथा कश्चित् साधुः स्वभावतो लावान् क्वाऽपि गृहे भिक्षार्थ गतः, प्रचुरा भिक्षां लभमानो मनसि शङ्कते किमत्र प्रचुरा भिक्षा दीयते न च लज्जया प्रष्टुं शक्नोति, एवं शङ्कया गृहीत्वा शङ्कित एव भुते इति प्रथमभङ्गवी, तथा कश्चित् साधुमि
१ पिं० नि० पृ० १४४ । २ पि०नि० पृ० १४७
CARRIERA2%*