________________
AS
AGARGAE
-
भ्यमानमपि यन्त्र गृह्णाति तन्मायापिण्डः ९
लोमेन सारस्य लोपटथात् पूर्व तथाविधषुद्ध्यभावेऽपि यथाभावं प्रचुरं लभ्यमानं लपनश्रीप्रभृतिक भद्रकर इति कृत्वा यद्गृहाति स लोभपिण्डः, यथा पायसादिलब्धेऽपि खण्डशर्करादि कुतोऽपि लभ्यते तदा शोभनतरमिति रूपो योऽध्यवसायः पर्यटन् सल्लभते | स लोभपिण्ड इदं च क्रोधादिकचतुष्टयमपि साधूनां न कल्पते, प्रद्वेषकर्मबन्धप्रवचनलाघवादिदोषसंभवात् १० यथा... कोहे घेवर खवगो, माणे सेवइय खुड्डुओ नायं । मायाइसाढभूइ, लोभे केसरय साहु त्ति॥१॥
इति पिण्डनियुक्तिगतोदाहरणत्वात् । पुदिव पच्छासंथवोत्ति संस्तवो द्विधा, वचनसंस्तवः सम्बन्धसंस्तवश्च। तत्र वचनं | श्लाघा तद्रूपो यः संस्तवो वचनसंस्तवः। सम्बन्धिनो-मात्रादयः स्वस्रादयश्च तद्रूपो यः संस्तवः सम्बन्धसंस्तवः। एकैकोऽपि-द्विधा | पूर्वसंस्तवः पश्चात्संस्तवश्च । तत्र देये लब्धे पूर्वमेव दातारं गुणैर्वर्णयति स पूर्वसंस्तवः। यत्तु लब्धे सति दातारं गुणैर्वर्णयति स पश्चात् 3 संस्तवः । इयमत्र भाषना-कश्चिद्यतिर्भिक्षार्थ भ्रमन् कञ्चिदीश्वरगृहं निरीक्ष्य सत्यैरसत्यैरौदार्यादिगुणैः स्तौति पूर्ववार्तादिभिर्यादृशा उदारत्वेन संश्रुतास्तादृशा एव दृष्टाः यस्येदृशा गुणाः सर्वत्र प्रस्फुरन्ति इत्यादि संस्तवपूर्व दानात् । तथा पश्चात् त्वदीयदर्शनेनाऽस्माकं | मनोलोचने च शीतले जाते इत्याधनेकचाटुवचनानि वक्ति, उभयरूपेऽप्यस्मिन् मायामृषावादाऽसंयमानुमोदनादयो बहवो दोषा भवन्ति | सम्बन्धेऽप्येवमेव भाव्यं । तथा असति सम्बन्धे युनक्ति यादृशी तव माता तादृशी ममाऽपि अस्ति तामालोक्याश्रुणि क्षरन्ति, अथवा तब मार्या सदृशी मयाऽपि भार्या मुक्ता, अथवा यादृशास्तव पुत्रास्तादृशाः ममाऽपि सन्ति इत्यादिसम्बन्धो योजयति, अथवा कल्प-14
१ क्रोधमानमायालोभपिण्डोपरि दृष्टान्तचतुष्कं पि०नि० पृ० १३३-१३९ । २ पिं० नि० पृ० १३९
SERO
ERSEASE