________________
ज्ञान०वि०
प्रश्न०व्या०
वृत्ति
॥२७॥
कोहेत्ति क्रोधः कोपस्तद्धेतुकः पिण्डः क्रोधपिण्डः, किमुक्तं भवति ? कस्यचित् साधोः सम्बन्धिनमुचाटनमारण शापादिकं विद्याप्रभावं तपःप्रभावं सहस्रयोधित्वादिखबलं च राजकुलवल्लभत्वं च ज्ञात्वा शापदानेन वा कस्यचित् मारणाद्यनर्थरूपं क्रोधफलं साक्षादेव दृष्ट्वा भयात् गृहस्थेन यस्तस्मै दीयते स क्रोधपिण्डः । अथवा अन्येभ्यो ब्राह्मणादिभ्यो दीयमानो याचमानोऽपि साधुर्यदा न लभते तदा अलब्धिमान् सन् कुप्येत् कुपिते च सति तस्मिन् साधुः कुपितो भव्यो न भवतीति यद्दीयते स क्रोधपिण्डः । अथ च सर्वत्र कोप एव पिण्डोत्पादने मुख्यकारणं द्रष्टव्यं विद्यातपःप्रभृतीनि तु तत् कारणान्येवेति । न विद्यापिण्डादिभिरस्य मित्रत्वं आशङ्कनीयं क्रोधादिष्वेवान्तर्भावात् इति ७
मानो - गर्वस्तद्हेतुकः पिण्डो मानपिण्डः अयमर्थः कश्चिद्यतिः कैश्चिदपरैः साधुभिरिति उक्तस्त्वं लब्धिमान् ज्ञास्यसे यचद्य भोजयिष्यसि इत्यादि वाक्यैरुतेजितो अथवा नन्वयम् किमपि [न] सिद्ध्यति इत्यपमानतो वा गर्वष्मातचेता अथवा लब्धिप्रशंसादिकपरैर्वाच्यमानमाकर्ण्य यत्र कुत्राऽप्यहं व्रजामि तत्र सर्वथाऽपि लभे, तथैव जनो मां प्रशंसति इत्येवं प्रवर्द्धमानमानः कस्याऽपि गृहिणः पाश्च गत्वा तं गृहिणं तैस्तैर्वचनजातैर्दानविषयेऽभिमाने च दापयति । स च गृही तथाऽभिमानपरः शेषकलत्रादिके निने लोके दातु| मनिच्छत्यपि यदशनादिकं ददाति स मानपिण्डः ८
मायत्ति माया - परवञ्चनात्मिका बुद्धिस्तया कश्चित् साधुर्मन्त्रयोगाद्युपायकुशलः स्वकीयरूपपरावृत्यादि कृत्वा यन्मोदकादिकं उपाजयति स मायापिण्डः, ईयमत्र भावना - कश्चिद्यतिः अद्याऽहं सिंहकेसरादिमोदकादिकं गृहीष्यामीति बुद्ध्या अन्यद् वल्लचणकादिल१ पिं० नि० १३३ । २ पतद्भावो पिण्डनिर्युक्तौ ४८१ गाथायां लोभपिण्डे न्यस्तोऽत्र तु मायापिण्डे
Rotat
69649
प्रथम
संवरद्वारे पिण्डोत्पा|दनदोषाः
॥२७॥