________________
ज्ञान०वि०
प्रश्न० व्या०
वृत्ति
॥२६॥
त्वं ब्राह्मणोऽसि तच्छ्रुत्वा मौनेन स्थितं एतच्च सूचया जाति प्रकटनं असूचया तु पृष्टोऽपृष्टो वा आहारार्थं स्वजातिं प्रकटयति यथाऽहं ब्राह्मणः, अत्र चाऽनेके दोषाः स द्विजो यदा भद्रकस्तदा स्वजातिपक्षपातात् प्रभूतमाहारादिकं पक्त्वाऽपि ददाति आधाकर्मदोषः । अथ अप्रीतस्तदा भ्रष्टोऽयं पापात्मा ब्रह्मत्वं त्यक्तवानिति विचिन्त्य स्वगृहान्निष्कासनादि करोति एवं क्षत्रियादिजातिकुलादिष्वपि भावनीयं ४
वणीमग्गति वनु याचने प्रायो दायकाभिमतेषु श्रमणादिष्वात्मानं भक्तं दर्शयित्वा पिण्डं याचते इति वनीपकः । कश्चिद्यतिनिर्ग्रन्थशाक्य तापस परिव्राजकाजीविकद्विजप्राघूर्णश्वानकाकशुकादिभक्तानां गृहस्थानां गृहं भिक्षां भ्रमन् प्रविष्टस्ततस्तेषां पुरतोऽशनादिलाभार्थ निर्ग्रन्थादिगुणवर्णनेनात्मानं तद्भक्तं दर्शयति । तथाहि - स कदाचित् प्रविष्टो निर्ग्रन्थभक्त श्रावकगृहे निग्रंथानाश्रित्य वदति| भो श्रावक ! तथैते गुरवः सातिशयज्ञानभूषिता बहुश्रुता इत्यादिकां प्रशंसां, शाक्योपासकगृहे शाक्यान् एवं तापस-परिव्रजकाजीविकद्विजानप्याश्रित्य तद्दानतद्गुणप्रशंसाकरणेन वनीपकत्वं विज्ञेयं । तथाऽतिथिभक्तानां पुरत एवं वक्ति इह प्रायो लोकः परिचितेषु उपकारकेषु वा ददाति, पुनः अखिन्न अतिथिजनं पूजयति तस्यैव दानं जगति प्रधानमिति, श्वानभक्तास्तु किन्तु एते श्वानः कैलासपवैतादागत्य यक्षा एव श्वानरूपेण पृथवीं संचरन्ते, तत एतेषां दानेन वैश्रमणः प्रसन्नीभूय धनं ददाति । एवं काकादिष्वपि भावनीयं, इत्थं वनीपकत्वकरणेन पिण्डो बहुदोषाय भवति । यथाऽधामिके धामिके वा पात्रे दानं दत्तमपि न निष्फलं भवतीत्येवमुक्तेऽपात्रदानस्य पात्रता प्रशंसनेन स त्यक्ताचारः स्यात् किं पुनः कुपात्रानेव शाक्यादीन् साक्षात् प्रशंसतः उक्तं चअपते ॥ १ ॥
दाणं न होइ अफलं पत्तमपत्तेसु संनिजुज्जंतं । इय भणिए विय दोसो, पसंसओ किं पुण
प्रथम
संवरद्वारे पिण्डोत्पा
दनदोषाः
॥२६॥