SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ त्वं जानासि तथैव संपन्न इति, इह च साधुसंघाटकस्य शेषलोकानां च सन्देशार्थानवगमादुभयप्रच्छन्नदूतीत्वं । दोषाश्च सर्वत्र गृहस्थव्यापारादिना जीवोपमर्दादय इति दूतीदोषः २ निमित्तेत्त निमित्तं अतीताद्यर्थपरिज्ञानहेतु शुभाशुभचेष्टातद्धेतुकं ज्ञानं निमित्तज्ञानं, तत्करणेन पिण्डो निमित्तपिण्डः । यथा कोऽपि साधुः कथयति तव अतीतदिने सुखदुःखलाभालाभादि जातं, आगामिदिने वा राजप्रसादिकं भविष्यति, संप्रति वाऽद्यैव दिने | | अमुकं अमुकं भवतीति भविष्यति वा, तेऽपि गृहस्था लाभालाभसुखदुःखजीवितमरणादिविषयं निमित्तं पृष्टमपृष्टं वा धृष्टेन तेन कथ्यमानमालोक्यावर्जितमानसास्तस्मै मुनये मोदकादिकां विशिष्टविपुलां भिक्षां ददते दापयन्ति वा स निमित्त पिण्डः साधूनामनाचीर्णः, | आत्मपरोभयविषयाणां वधादिदोषाणामनेकेषामत्र संभवादिति ३ आजीवति आजीवनं वृत्तिराजीविका सा पश्चधा - जातिविषयः १ कुलविषयः २ गणविषयः ३ कर्मविषयः ४ शिल्पविषयश्च ५ । एकैकोऽपि द्विधा - सूचया १ सूचया२ च । सूचा - वचनरचनाविशेषेण कथनं, असूचा - अस्फुटवचनेन तत्र सूचया - स्वजातिप्रकटनेनतजातिमुपजीवति । यथा कश्चित् साधुभिक्षामटन् द्विजवेश्म प्रविष्टः, तत्र द्विजपुत्रं यागहोमादिक्रियां सम्यकुर्वन्तं वीक्ष्य तञ्जनकाग्रे | स्वजातिप्रकटनाय वक्ति यथा समिधमन्त्र - आहुतिस्थानं यागकालघोषादयः क्रियाः सम्यक् असम्यक् वा भवन्ति । तत्र समिधः पिप्प| लादीनामार्द्रशाखाखण्डरूपाः, मत्राः प्रणवादिका वर्णरचनाः, आहूतिः अग्न्यादौ घृतक्षेपरूपा स्थानं - उत्कटिकादि यागोऽश्वमेघादि, कालः प्रभातादि, घोष उदात्तादि, सर्वं यथा प्रतिपादितं तथा क्रियते सा सम्यविक्रया तद्विपरीता न्यूना अधिकतया वा विपर्ययेण वा क्रियते साऽसम्यक्क्रिया । अयमपि त्वत्पुत्रः सम्यक् क्रियां कुर्वाणः श्रोत्रियस्य पुत्रः ज्ञायते इत्येवमुक्ते स द्विजो वक्ति अवश्यं *464646
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy