SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ बनविदच धात्रीत्वस्य यत्करणं कारापणं वा धात्रीशन्देनोक्तं, तथा धात्र्याः पिण्डो धात्रीपिण्डो, एवं दूत्यादिष्वपि भावनीयमिति, इयमत्र प्रथम प्रश्नव्या भावना-कश्चित् साधुर्भिक्षार्थ पूर्वपरिचितगृहे प्रविष्टो, रुदन्तं बालकं विलोकयन् तन्मातरमाह यतोऽयं दारकोऽद्यापि क्षीराहारः क्षीरं वृत्ति विना रुदति तन्मह्यं मिक्षा मंक्षु दत्वा पश्चादेनं स्तन्यं पायय, यद्वा प्रथममेनं पायय पश्चात् भिक्षां देहि, यदि वा अलं भिक्षया, पिण्डोत्पासंप्रति एनं पायय, अहमन्यत्र गत्वा पुनः समेष्यामि, यदि वा तिष्ठ त्वं निराकुला अहमेवाऽस्मै कुतोऽपि क्षीरमानीय दास्यामीति | दनदोषाः ॥२४॥ स्वयं धात्रीत्वं करोति । तथा मतिमान् निरोगश्चिरायुः बालः स्तन्यं पायितः स्यात् इति श्रुते अपमानितस्तु विपरीतो भवति दुर्लभ खलु लोके पुत्रमुखदर्शनं अतः सर्वाण्यन्यानि कर्माणि मुक्त्वा बालकं स्तन्यं पाययेति एवं च क्रियमाणे बहवो दोषा भवेयुः । तथाहिबालकमाता भद्रकत्वादादृतमानसा सत्याऽऽधाकर्मादिकं कुर्यात् , तथा बालकः खजातो वा अन्यो वा प्रातिवेश्मिकादि बालकमात्रा सह साधोः संभावयेत् , चाटुकरणदर्शनात् यदि वप्ता वा बालजननी भवेत्तदा रोपं वहेदहो प्रव्रजितस्य महती परकीया तप्तिः, तथा वेदनीयकर्मविपाकवशात् बालकस्य कदाचिन्मान्द्ये संजाते मदीयपुत्रोऽनेन लोचनीकृत इत्यादि साधुना सह कलहकरणात् प्रवचनमालिन्यं इति दोषाः। अथवा कस्यापीभ्यगृहे बालधापनपरां धात्री स्वबुद्धिप्रपश्चन अन्यां मायाँ तत्र स्थापयन् धात्रीत्वं करोति, यथा क-| श्चित् साधुभिक्षाचयाँ प्रविष्टः महेभ्यगृहे सशोका काञ्चिदवलोक्य पृच्छति-किमद्याऽधृतिपरा दृश्यसे! सा प्राह साधर्मिकमुने ! दुःखं | दुःखसहायकस्यैव कथ्यते, को दुःखसहायो भवत्याः ? सा प्राह यो निशम्य दुःखप्रतिकार करोति । मुनिः प्राह-मां मुक्त्वा कोऽन्य-द स्तथाभूतः। सा प्राह भगवन् ! स्फेटिताऽहं अपरधाच्या इभ्यगृहात् तेन विषण्णा, ततः साधुरुत्पन्नाभिमानो वक्ति तत्र स्थापयामि ततो है यथेप्सितां भिक्षां ददामीति इत्यभिधाय स्फेटितुमिष्टाया धाच्या अदृष्टत्वात् स्वरूपं अजानन् तस्या एव पार्श्वे [अभिनव स्थापितायाः BAEEReKOLALAE% EC ॥२४॥ %
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy