SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ HAAEEEHALKAROLOR Pil स एव अध्यवपूरकः स्वार्थ कप्रत्ययविधानात् तद्योगाद्भक्ताद्यष्यध्यवपूरकः । तत्रिधा खगृहयावदर्थिकमिश्रः, खगृहपाखण्डिमिश्रश्च, खगृहश्रमणमिश्रस्तु स्वगृहपाखण्डिमिश्रेऽन्तर्भावित इति पृथग् नोक्तः। तत्र यावदर्थिकात्-प्रथममेवाग्निसंधुक्षणस्थालीजलप्रक्षेपादिरूपे आरम्भे स्वार्थ निष्पादने पश्चात् यथासंभवं त्रयाणां यावदर्थिकादीनां अर्थाय अधिकतरान् तण्डुलादीन प्रक्षिपति एषोऽध्यवपूरकः अतएवाऽस्य मिश्रजाताऽदो यथा मिश्रजातं तदुच्यते-यत्प्रथमत एव यावदर्थिकाद्यर्थमात्मार्थ च मिश्रं निष्पाद्यते, यत्पुनः प्रथमं आरभ्यते स्वार्थ पश्चात् प्रभूतान् अर्थिनः पाखण्डिनः साधून् वा समागतानवगम्यते तेषामर्थायाधिकतरं जलतण्डुलादि प्रक्षिप्यते सोऽध्यवपूरक ल इति । अत्र च स्वगृहं यावदर्थिक मिश्रेऽध्यवपूरके शुद्धभक्तमध्ये यावन्तः कणाः कार्पटिकाद्यर्थ पश्चात् क्षिप्ताः तावन्मानं स्थाल्याः |पृथग् क्रियते कार्पटिकेभ्यो वा दत्ते सति शेषमुद्धरितं भक्तं तत् साधूनां कल्पते । अतएव चाऽयं विशोधिकोटिर्वक्ष्यते तथा स्वगृह| पाखण्डिमिश्रे स्वगृहसाधुमिश्रे च शुद्धभक्तमध्ये पतिते पूर्तिभवति यदि तावन्मानं स्थाल्याः पृथक्कृतं दत्तं वा पाखण्डयादिभ्यस्तथापि | शेषं न कल्पते । यतः सकलमपि तद्भक्तं पूतिदोषदुष्टं भवतीति १६ उक्ताः षोडश उद्गमदोषाः, । अथोत्पादना दोषानाऽऽह धाइ दह निमित्ते-इति गाथाद्वयं पूर्वोक्तं वाच्यं, तत्र धयन्ति पिबन्ति बालका यां इति धीयन्ते धार्यन्ते पालकानां दुग्धपानाद्यठा र्थमिति वा, धात्री बालपालिका, सा च पश्चधा-क्षीरधात्री १ मञ्जनधात्री २ मण्डनधात्री ३ क्रीडनधात्री ४ उत्संगधात्री ५ च । इन १ षोडशोद्गमदोषस्वरूपम् पिंडनियुक्ति पृष्ठ ३४-११६ यावत् २ धाई दुइ निमित्त आजीव वणीमगे तिगिच्छा य । कोहे माणे माया लोमे य हवंति दस पए ॥१॥ पुब्धि पच्छा संथव विजा मंते य चुन्न जोगे य । उप्पायणाइ दोसा सोलसमे मुलकम्मे य ॥२॥ पि०नि० गा०४०८-४०९
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy