________________
2646
छ
प्रभुविषयं स्तेनविषयं च । तत्र ग्रामादिनायकः - खामी गृहमात्रनायकः - प्रभुः स्तेनचौरः, ततो ग्रामादिखामी संयतान्निरीक्ष्य भद्रकतया कलहेनाऽकलहेन वा बलादपि साधुदानाय कौटुम्बिकेभ्यः सकाशात् आच्छेद्य यतिभ्यो ददाति तत् खामिविषयं । तथा यद्गोरक्षककर्मकरपुत्र पुत्रवधूभार्यादिसत्कमेतेभ्यो अनिच्छद्भयोऽपि गृहीत्वा गृहस्वामी साधुभ्यो दुग्धादिकं ददाति तत्प्रभुविषयं आच्छेद्यं । तथा स्तेना अपि केचित् संयतान् प्रति भद्रका भवन्ति ततस्ते मार्गे आगच्छन्तः कदाचित् तथाविधसार्थ सार्धमागतान् भोजनार्थं कृतावस्थितैः सार्थस्य मध्ये भिक्षामटन्तः परिपूर्णतामप्राप्नुवन्तश्च संयतान् दृष्ट्वा तन्निमित्तमात्मनो वाऽर्थाय सार्थिकेभ्यो बलादाच्छिद्य पाथेयादि यद्दत्तवन्तस्ततस्तेनविषयमाच्छेद्यं । एतत् त्रिविधमप्याच्छेद्यं साधूनामकल्प्यं । अप्रीतिकलहात्मघातान्तरायप्रद्वेषाद्यनेकदोषसंभवात् । केवलं स्तेनाऽऽच्छिद्येऽयं विशेषो येषां सम्बन्धिभक्तादि बलादाच्छिद्य चौराः साधुभ्यो ददति त एव सार्थिका यदि स्तेनैर्बलादाप्यमाना एवं ब्रुवन्ते अस्मदीयं सर्वं चौरगृहीतव्यं, ततो यदि चौरा युष्मभ्यं दापयन्ति ततो अस्माकं महान् संतोष इति यदि तैरनुज्ञाता मुनयो दीयमानं चौरैरपि गृह्णन्ति पश्चाच्चौरेषु अपगतेषु भूयोऽपि ततो गृहीतं द्रव्यं तेभ्यः समर्पयन्ति यदा तदानीं चौरभयादस्माभिगृहीतं संप्रति ते गतास्तदात्मीयं द्रव्यं यूयं गृहीथ, एवमुक्ते यदि ते समनुजानते यदा युष्मभ्यमेवास्माभिर्दत्तं तर्हि भुञ्जते कल्पनीयत्वादिति १४ अनिसृष्टम् न निसृष्टं स्वामिभिः साधुदानार्थमननुज्ञातं यत्तदनिःसृष्टं तस्त्रिधा साधारणानिसृष्टं, जड्नानिसृष्टं, चोल्लकानिसृष्टं । तत्र साधारणं बहुजनसामान्यं, चोल्लकं स्वस्वामिना पदातिभ्यः प्रसादीक्रियमाणं कौटुम्बिकेन वा क्षेत्रादिस्थित कर्म्म करेभ्यो दीयमानं देशीयभाषया भक्तमुच्यते, जद्नो हस्तिभिरनिसृष्टमननुज्ञातं न कल्पते साधूनां तत्र साधारणापिं० नि० ११३