SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ज्ञान०वि० प्रश्न० व्या० वृचि ॥२०॥ पामिच्चेति अपमित्यं भूयोऽपि तव दास्यामीत्येवमभिधाय यत्साधुनिमिचमुच्छिनं गृह्यते तदपमित्यकं प्रामित्यकं वा तद् द्विविधं लौकिकं लोकोत्तरं च । तत्र लौकिकं यद्गृहस्थेन परस्मादुच्छिनं गृहीत्वा घृतादिवस्तु व्रतिभ्यो दीयते । दोषाश्च दासत्व-निगडत्व नियन्त्रणादयः । लोकोचरं च वस्त्रादिविषयं साधूनामेव परस्परमवसेयं, तदपि द्विविधं कोऽपि कस्याऽपि सक्तं एव वस्त्रं गृह्णाति यथा कियदिनानि परिभुज्य पुनरपि तत् समर्पयिष्यामि कोऽपि पुनरेवं तावत् दिनानामुपरि तवैतत् सदृशं परं वस्त्रं दास्यामि । तत्र प्रथमे प्रकारे शरीरादिमलेन मलिनीभूते यदि वा पाटिते चौरादिना गृहीते मार्गपतिते वा तस्मिन् वस्त्रादिके कलहादयो दोषाः, द्वितीये च प्रकारेऽन्यवस्त्रादिकं याचमानस्य तस्य दुष्कररुचेर्विशिष्टतरेऽपि दत्ते महता कष्टेन रुचिरापादयितुं शक्यते ततस्तमाश्रित्य कलहादयो दोषा सम्भवन्तीति ९ । परियकृति परिवर्त्तितं यत् साधुनिमित्तं कृतपरावर्च तद्द्वैषं लौकिक लोकोत्तरं च, एकैकं द्विविधं तद्द्रव्यविषयं च अन्यद्रव्यविषयं च तद्द्द्रव्यविषयं यथा- कुथितं घृतं दत्त्वा साधुर्निमित्तं सुगन्धिघृतं गृह्णाति इत्यादिरूपं, अन्यद्रव्य. विषयं यथा कोद्रवकूरं समर्पयित्वा साधुनिमित्तं शाल्योदनं गृह्णाति इदं च लौकिकमेव । लोकोचरं अपि साधोः साधुना सह वस्त्रादिपरिवर्तनस्वरूपं द्विधा भावनीयं दोषायात्राऽपि प्राग्वदेव १० | अभिहडेत्ति-अमि साध्वभिमुखं हृतं गृहस्थेन स्थानान्तरादानीतं अभिहतं तद्विधा, आचीर्ण अनाचीर्ण, तत्राऽनाचीणं द्विविधं प्रच्छलं च प्रगटं च सर्वथा साधूनां अभ्याहृतत्वेन यदपरिज्ञानं तत्प्रच्छन्नं यत्पुनः अभ्याहृतत्वेन जातं तत्प्रगटम् । एकैकमपि द्विविधं स्वग्रामविषयं परग्रामविषयं च यस्मिन् ग्रामे साधुर्वसति स किल स्वग्रामः, शेषस्तु परग्रामः काचित् भक्तिमती श्रा विका साधूनां प्रतिलाभनायाम्याहृता शङ्कानिवृत्यर्थं प्राहुणमिषेणोपाश्रये मोदकाद्यानीय साधुसम्मुखमेवं बदति यथा भगवन् ! आठ प्रथम संवरद्वारे पिण्डोद्गम दोषाः ॥२०॥
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy